तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 291, कुल 345 में से
संदर्भ में पढ़ें२६२ (१.५.११) तैत्तिरीयब्राह्मणम् एका॑दशकपालेन॒ माध्यं॑दिने॒ सव॑ने । विश्वे॑ दे॒वा द्वाद॑शकपालेन तृती॑यसव॒ने (३), इति । तमादित्यम् । न चात्रेन्द्रस्य स्तोतव्यत्वे सति भेषज्येना- ऽऽदित्यस्तुतिस्युक्तेति वाच्यम् । इन्द्रस्यैव मूर्त्यन्तरं स्वीकृत्याऽऽदित्यरूपेणावस्थितत्वात् । अथवाऽदितेः पुत्र इति व्युत्पत्त्याऽऽदित्यशब्देनेन्द्र एव विवक्षित इति गमयितव्यम् । अत्रोक्तार्थवादानुसारेण सवनत्रये विलक्षणपुरोडाश- प्राप्तावन्वयव्यतिरेकाभ्यां तद्वारयति- स यद॒ष्टाक॑पालाना॒न्प्रातः सव॑ने कु॒र्यात् । एका॑दशकपालानान्माध्यं॑दिने सव॑ने । द्वाद॑शकपाला ँ स्तृती॑यसवने । विलो॑म॒ तद्य॒ज्ञस्य॑ क्रियेत । एका॑दशकपालाने॒व प्रातः सव॑ने कुर्यात् । एका॑दशकपालानान्माध्यं॑दिने सव॑ने । एका॑दशकपाला ँ स्तृती॑यसवने । य॒ज्ञस्य॑ सलोम॒त्वाय॑, इति अत्र पुरोडाशार्थानि यानि कपालानि तेषां वैलक्षण्यं यज्ञस्य विलोमत्वमैकविध्यत्वं सलोमत्वं तदिदं पक्षद्वयं सूत्रकार आह-“अष्टौ पुरोडाशकपालान्येकादश माध्यंदिने द्वादश तृतीयसवने सवनेन्द्रानैकादशकपालाननुसवनमेके समामनन्ति” इति । पूर्ववदत्रापि प्रश्नोत्तराभ्यां पुरोडाशानामिन्द्रदेवताकत्वं दर्शयति- तदा॑हुः । यद्वसूं॑नां॒ प्रातः सव॑नम् । रु॒द्राणां॒ माध्यं॑दिनँ सव॑नम् । विश्वे॑षां दे॒वानां॑ तृती॑यसव॒नम् । अथ॒ कस्मा॑देतेषा॒ ह॒विषा॒मिन्द्र॑मेव य॑जन्तीति॑ । ए॒ता ह्ये॑नं दे॒वता॑ इति॑ ब्रूयात् । ए॒तैर्ह्यवि॒र्भि॑रभिषज्य॒ ँस्तस्मा॒दिति॑ (४), इति । एका॑वि ँश आहुस्तृती॑यसव॒ने प्रा॒तः सव॑नं पञ्च॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके पञ्चमाध्याये एकादशोऽनुवाकः ॥ ११ ॥ धानादिवाक्यात्पुरोडाशवाक्यं व्याख्येयम् । यद्यपि न धानादयः पुरोडाशास्तथाऽपि पुरोडाशसाहचर्याच्छत्रिन्यायेन पुरोडाश इति व्यवहारः । यथैकस्मिन्नैव च्छत्रिणि सत्यापि च्छत्रिणो गच्छन्तीति सर्वेषु च्छत्रित्वव्यवहारस्तद्वत् । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे पञ्चमप्रपाठके एकादशोऽनुवाकः ॥ ११ ॥