तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 313, कुल 345 में से
संदर्भ में पढ़ें२८४ (१.६.१०) तैत्तिरीयब्राह्मणम् द्वाव॑नूया॒जौ । षट् संप॑द्यन्ते । षड्वा ऋ॒तव॑: । ऋ॒तूने॒व प्री॑णाति । न पत्न्यन्वा॑स्ते । न संया॑जयन्ति । यत्पत्न्यन्वासी॑त । यत्सं॒जा॑ये॑युः । प्र॒मायु॑का स्यात् । तस्मान्नान्वा॑स्ते । न संया॑जयन्ति । पत्न्यै॑ गोपी॒थाय॑ (१०) । होता॑रमाज्यभा॒गौ य॑जति संत॑तमव॑द्यति॒ व्यावृत्यै बर्हि॒षदो॑ यजति॒ तमे॒व तद्य॑जेत्यनु॒निष्क्रा॑मन्त्याह्वैना॒नृत॑वो॒ नव॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके षष्ठाध्याये नवमोऽनुवाकः ॥ ९ ॥ अथ षष्ठप्रपाठके दशमोऽनुवाकः । प्र॒ति॒पूरु॑षमेक॑कपाला॒न्निर्व॑पति । जा॒ता ए॒व प्र॒जा रु॒द्रान्नि॒रव॑दयते । एक॑मतिरि॒क्तम् । ज॒निष्य॑माणा ए॒व प्र॒जा रु॒द्रान्नि र॑वदयते । एक॑कपाला भवन्ति । एक॑धैव रु॒द्रं नि॒रव॑दयते । ना॒भिघा॑रयति । यद॑भि॒घारये॑त् । अ॒न्तर॒वचा॑रिणं ५रु॒द्रं कु॑र्यात् । एको॑ल्मु॒के न॑यन्ति (१) । तद्धि रु॒द्रस्य॑ भा॒ग॒धेय॑म् । इ॒मां दिशं॑ यन्ति । ए॒षा वै रु॒द्रस्य॑ दिक् । स्वाया॑मे॒व दिशि॑ रु॒द्रं नि॒रव॑दयते । रु॒द्रो वा अप॑शु॒काया॒ आहु॑त्यै॒ नार्ति॑ष्ठत । अ॒सौ ते॑ प॒शुरिति॑ निर्दि॑शे॒द्यं द्वि॒ष्यात्॑ । यमे॒व द्वेष्टि॑ । तम॑स्मै प॒शुं निर्दि॑शति । यदि॑ न द्वि॒ष्यात्॑ । आ॒खुस्ते॑ पशुरिति॑ ब्रूयात् (२) । न ग्रा॒म्यन्प॒शून्हि॑नस्ति । नाऽऽर॒ण्यान् । च॑तुष्प॒थे जु॑होति । ए॒ष वा अ॒ग्नीनां॑ षड्वां॒शो नाम॑ । अ॒ग्निव॒त्येव जु॑होति । म॒ध्यमे॑न प॒र्णेन॑ जुहोति । स्रुग्ध्यै॑षा । अथो॒ खलु॑ । अ॒न्तमे॑नैव होत॑व्यम् । अ॒न्तत॑ एव रु॒द्रं नि॒रव॑दयते (३) । ए॒ष ते॑ रुद्र भा॒गः सह॑ स्वस्राऽम्बिक॑येत्या॑ह । श॒रद्वा अ॒स्याम्बिका॒ स्वसा॑ । तया॒ वा ए॒ष हि॑नस्ति । य ५