तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 315, कुल 345 में से
संदर्भ में पढ़ें२८६ . (१.७.१) तैत्तिरीयब्राह्मणम् भ॑वति । वा॒युर्वै वृ॒ष्ट्यै प्र॑दापयि॒ता । स ए॒वास्मै॑ वृ॒ष्टिं प्रदा॑पयति । सौ॒र्य एक॑कपालो भवति । सूर्ये॑ण॒ वा अ॒मुष्मिँ॒ल्लो॒के वृ॒ष्टिर्धृ॒ता । स ए॒वास्मै॑ वृ॒ष्टिं॒ निय॑च्छति (१) द्वाद॑शगव॒ꣳ सीरं॒ दक्षि॑णा॒ समृ॑द्ध्यै । दे॒वा॒सु॒राः संय॑त्ता आसन् । ते दे॒वा अ॒ग्निम॑ब्रुवन् । त्वया॑ वी॒रेणासु॑रान॒भिभ॑वा॒मेति॑ । सो॓ऽब्रवीत् । त्रे॒धाऽऽत्मा॑नं विक॑रिष्य॒ इति॑ । स त्रे॒धाऽऽत्मा॑नं॒ व्य॑कुरुत । अ॒ग्निं तृ॒तीय॑म् । रु॒द्रं तृ॒तीय॑म् । वरु॑णं तृ॒तीय॑म् । (२) सो॓ऽब्रवीत् । क इ॒दं तुरी॑य॒मिति॑ । अ॒हमितीन्द्रो॓ऽब्रवीत् । सं तु सृ॑जावहा॒ इति॑ । तौ सम॑सृजेताम् । स इन्द्र॑स्तु॒रीयं॑मभवत् । यदिन्द्र॑स्तु॒रीय॒मभ॑वत् । तदि॑न्द्रतुरीय॒स्येन्द्र॑तुरीय॒त्वम् । ततो॒ वै दे॒वा व्य॑जयन्त । यदि॑न्द्रतुरी॒यं नि॒रुष्य॑ते विजि॑त्यै (३) । ब॒र्हिणी॑ धे॒नुर्दक्षि॑णा । यद्ब॒र्हिणी॑ । तेना॓ऽऽग्ने॒यी । यद्गौः। तेन॑ रौ॒द्री । यद्धे॒नुः । तेनै॓न्द्री । यत्स्त्री स॒ती दा॒न्ता । तेन॑ वारु॒णी समृ॑द्ध्यै । प्र॒जाप॑तिर्य॒ज्ञमसृ॑जत । (४) । त ँ सृ॒ष्ट ँ रक्षा॓ꣳ स्यजिघाꣳसन् । स ए॒ताः प्र॒जाप॑तिरा॒त्मनो॑ दे॒वता॑ निर॑मिमीत । ताभि॒र्वै स दि॒ग्भ्यो रक्षा॓ꣳसि॒ प्राणु॑दत यत्पं॑ञ्चाव॒त्तीयं॑ जु॒होति॑ । दि॒ग्भ्य ए॒तद्यज॑मानो॒ रक्षा॓ꣳसि॒ प्रणु॑दते । समू॑ढ॒ꣳ रक्षः॒ संग॑धृ॒ꣳ रक्ष॒ इत्या॑ह । रक्षा॓ꣳस्ये॒व संद॑हति । अ॒ग्नये॑ रक्षो॒घ्ने स्वाहेत्या॑ह । दे॒वता॑भ्य ए॒व वि॑जिग्या॒नाभ्यो॑ भाग॒धेयं॑ करोति । पृ॒ष्ठि॒वाही रथो॒ दक्षि॑णा॒ समृ॑द्ध्यै (५) । इन्द्रो॑ वृ॒त्र ँ ह॑त्वा । असु॑रान्परा॒भाव्य॑ । नमु॑चि॒मासु॑रं॒ नाल॑भत । त ँ श॒च्या॑ऽगृह्णात् । तौ सम॑लभेताम् । सो॓ऽस्माद॒भिशु॑नतरोऽभवत् । सो॓ऽब्रवीत् । संधा ँ संद॑धावहै । अथ॒ स्वा वः॑ स्रक्ष्यामि । न मा॒ शुष्के॑ण