तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 334, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.८.५) ३०५ तस्मा॑त्प्रा॒वृषि॒ सर्वा॒ वाचो॑ वदन्ति । पौ॒ष्णेन॒ व्यव॑स्यन्ति । मै॒त्रेण॑ कृषन्ते । वा॒रु॒णेन॒ विधृ॑ता आसते क्षेत्रपत्ये॑न पाच॑यन्ते । आ॒दि॒त्येनाऽऽद॑धते (२) । मा॒सि मा॑स्ये॒तानि॑ ह॒वी ꣳ षि॒ नि॒रूप्या॒णीत्या॑हुः । तेनै॒वर्तून्प्रयु॑ङ्क्त॒ इति॑ । अथो॒ खल्वा॑हुः । कः सं॑वत्स॒रं जी॑विष्य॒तीति॑ । षडे॒व पूर्वे॒द्युर्नि॒रूप्या॑णि । षडु॑त्तरे॒द्युः तेनै॒वर्तून्प्रयु॑ङ्क्ते । दक्षि॑णो रथवाहनवा॒हः पूर्वेषां॒ दक्षि॑णा । उत्त॑र उत्तरे॑षाम् । सं॒व॒त्स॒रस्यै॒वान्तौ॑ युनक्ति । सु॒वर्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै (३) । त्वा॒ष्ट्रम॒ष्टाक॑पालं दधत्ते युनक्तयेकं॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टकेऽष्टमाध्याये चतुर्थोऽनुवाकः ॥ ४ ॥ अथाष्टमप्रपाठके पञ्चमोऽनुवाकः । इन्द्र॑स्य सुषुवा॒णस्य॑ दश॒धेन्द्रि॒यं वी॒र्यं॑ परा॑पत् । स यत्प्र॑थ॒मं निर॑ष्ठीवत् । निर॑ष्ठीं॒वत् । तत्क्व॑लमभवत् । यद्द्वि॒तीय॑म् । यद्ब॒दर॑म् । यत्तृ॒तीय॑म् । तत्क॒र्कन्धु॑: । यन्ना॑स्तः । स सि॒- हः । यदक्ष्यो॑: (१) । स शार्दू॒लः । यत्कर्ण॑योः । स वृक॑: । य ऊ॒र्ध्वः । स सोम॑: । याऽर्वा॑ची । सा सुरा॑ । त्र॒याः सक्त॑वो भवन्ति । इ॒च्छिय॒स्याव॑रुद्ध्यै । त्र॒याणि॑ लोमा॑नि (२) त्विषि॑मे॒वाव॑रुन्धे । त्रयो॒ ग्रहा॑: वी॒र्य॑मे॒वाव॑रुन्धे नाम्नां दश॒मी । नव॒ वै पुरु॑षे प्रा॒णाः नाभि॑र्दश॒मी । प्रा॒णा ई॑न्द्रि॒यं वी॒र्य॑म् । प्रा॒णाने॒वेन्द्रि॒यं वी॒र्य॑' यज॑मान आ॒त्मन्ध॑त्ते । सीसे॑न क्ली॒बाच्छष्पा॑णि क्रीणाति । न वा ए॒तद्यो न हिर॑ण्यम् (३) । यत्सीस॑म् । न स्त्री न पुमा॑न् । यत्क्ली॒बः । न सोमो॒ न सुरा॑ । यत्सौ॑त्रामणीस॒मृद्ध्यै॑ । स्वा॒द्वीं त्वा॑ स्वा॒दुनेत्या॑ह ।