तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 339, कुल 345 में से
संदर्भ में पढ़ें३१० (१.८.९) तैत्तिरीयब्राह्मणम् अथाष्टमप्रपाठके नवमोऽनुवाकः । इ॒यं वै रज॑ता । अ॒सौ हरि॑णी । यद्रु॒क्मौ भव॑तः । आ॒भ्यामे॒वैन॑मु॒भय॑तः परि॑गृह्णाति । वरु॑णस्य॒ वा अ॒भि॒षि॒च्यमा॑न॒स्याऽपः॑ । इ॒न्द्रियं॑ वी॒र्यं॑ निर॑घ्नन् । तत्सु॒वर्णँ॒ हिर॑ण्यमभवत् । यद्रु॒क्मम॑न्त॒र्दधा॑ति । इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्या॒निर्घा॑ताय । श॒तमा॑नो भवति श॒ताक्ष॑रः । श॒तायुः॑ पुरु॑षः श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॑ये प्रति॑तिष्ठति । आयु॒र्वै हिर॑ण्यम् । आ॒युष्मा॒ एवैन॑म॒भ्यति॑क्षरन्ति । तेजो॒ वै हिर॑ण्यम् । तेज॑स्या॒ एवैन॑म॒भ्यति॑क्षरन्ति । वर्चो॒ वै हिर॑ण्यम् । वर्च॑स्या॒ एवैन॑म॒भ्यति॑क्षरन्ति (१) । श॒ताक्ष॑रो॒ऽष्टौ च॑ । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टकेऽष्टमाध्याये नवमोऽनुवाकः ॥ ९ ॥ अथाष्टमप्रपाठके दशमोऽनुवाकः । अप्र॑तिष्ठितो॒ वा ए॒ष इत्या॑हुः । यो रा॑जसू॒येन॒ यज॑त॒ इति॑ । य॒दा वा ए॒ष ए॒तेन॑ द्वि॒रा॒त्रेण॒ यज॑ते । अथ॒ प्रति॑ष्ठा । अथ॑ सं॑वत्सरमा॑प्नोति । याव॑न्ति सं॑वत्स॒रस्याहो॑रा॒त्राणि॑ । ताव॑तीरे॒तस्य॑ स्तोत्रीया॑ः । अहो॑रा॒त्रेष्वे॒व प्रति॑तिष्ठति । अ॒ग्नि॒ष्टोमः॑ । पूर्व॑मह॑र्भवति । अ॒ति॒रा॒त्र उत्त॑रम् (१) । नानै॒वाहो॑रा॒त्रयोः॑ प्रति॑तिष्ठति । पौ॒र्ण॒मा॒स्यां पूर्व॑मह॑र्भवति । व्य॑ष्टका॒यामुत्त॑रम् । नानै॒वार्थ॑मा॒सयोः॑ प्रति॑तिष्ठति । अ॒मा॒वा॒स्या॑यां॒ पूर्व॑मह॑र्भवति । उद्दृ॑ष्ट॒ उत्त॑रम् । नानैव॑ मा॒सयोः॑ प्रति॑तिष्ठति । अथो॒ खलु॑ । ये एव सं॑मानप॒क्षे पुण्या॑हे स्याता॑म् । तयोः॑ का॒र्यं॒ प्रति॑ष्ठित्यै (२) । अ॒प॒श्व्यो॑ द्वि॒रा॒त्र इत्या॑हुः । द्वे ह्ये॑ते छन्द॑सी । गा॒य॒त्रं च॒ त्रैष्टु॑भं च॑ ।