तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 54, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.१.४) २५ भृ॒ग्वङ्गि॑रसा॒माद॑ध्यात् । आ॒दि॒त्यानां॑ त्वा दे॒वानां॑ व्रतपते व्र॒तेनाऽऽद॑धामी॒ त्यन्यासां॑ ब्राह्म॑णीनां॑ प्र॒जाना॑म् । वरु॑णस्य त्वा॒ राज्ञो॑ व्र॒तप॑ते व्र॒तेनाऽऽद॑धामी॒ति राज्ञः॑ । इन्द्र॑स्य त्वे॒न्द्रिये॑ण व्रतपते व्र॒तेनाऽऽद॑धामीति॑ रा॒जन्य॑स्य । मनौ॑स्त्वा ग्राम॒ण्यो॑ व्रतपते व्र॒तेनाऽऽद॑धामी॒ति वैश्य॑स्य । ऋ॒भूणां॑ त्वा॑ दे॒वानां॑ व्रतपते व्र॒तेनाऽऽद॑धामीति॑ र॒थ॒का॒रस्य॑ । य॒थादे॒व॒तम॒ग्निनाधी॑यते । न दे॒वता॑भ्य॒ आवृ॑श्च्यते । वसी॑यान्भवति (८), इति । ध्यायति रात्रिञ्चावरुन्द्धे भविष्यन्तीत्य॑ब्र॒वाञ्ज॒निष्य॒सें- ऽज्जय॒द्वसी॑यान्भवति नव॑ च । इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे प्रथमप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥ यस्य पुरुषस्य याऽभिमानिनी देवता तामनतिक्रम्याऽऽधानं तस्य पुरुषस्य यथादैवतमित्युच्यते । तदतिक्रमे सति देवताद्रोहो दारिद्र्यं च भवति । अनतिक्रमे तु देवताप्रसादो धनसंपत्तिश्च भवति । ये मनुष्या भृगुगोत्रोत्पन्ना ये चाङ्गिरोगोत्रोत्पन्नास्तेषामुभयेषां तत्प्रतिपादकं भृगू णामिति मन्त्रेणाऽऽधानम् । हे व्रतपते कर्मस्वामिन्नग्ने (ग्न) भृगूणामङ्गिरसां च संबन्धिना व्रतेन कर्मविशेषेण निमित्तभूतेन त्वामाधामीहाऽऽयतने स्थापयामीति मन्त्रार्थः । एवमुत्तरत्रापि योज्यम् । गोत्रान्तरगतानां ब्राह्मणानामादित्या एव देवताः । अभिषिक्तस्य राज्ञो वरुणो देवता । इतरस्य क्षत्रियस्येन्द्रो देवता । इन्द्रियेण व्रतेनेन्द्रियाभिवृद्धिहेतुना कर्मणेत्यर्थः । वैश्यस्य ग्रामनिर्वाहको मनुर्देवता । रथकारोऽनुलोमजः संकीर्णजातिः । तस्य ऋभवो देवता । एतैर्मन्त्रैर्यथादेवतमाधानं संपद्यते । अत्र मीमांसा । षष्ठाध्यायस्य प्रथमपादे चिन्तितम् - विप्रादिरेव रथकृदन्यो वाऽऽद्योऽस्तु योगतः । रूढवर्णान्तरं तस्याऽऽधाने वर्षर्तुरुच्यते ॥ (इति) । आधाने श्रूयते- “वर्षासु रथकार आदधीत” इति । तत्र रथं करोतीति व्युत्पत्या त्रैवर्णिको रथकार इति चेत् । मैवम् । संकीर्णजातिविशेषे रूढत्वात् । वैश्यायां क्षत्रियादुत्पन्नो माहिष्यः । शूद्रायां वैश्यादुत्पन्ना