तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 61, कुल 345 में से
संदर्भ में पढ़ें३२ (१.१.६) तैत्तिरीयब्राह्मणम् लुप्यते पवमानेष्टौ निर्वापः क्रियतेऽथवा । लुप्यते साधनः भावात्तेन मुख्यो न लुप्यते ॥ (इति) । आधानप्रकरणाग्नाताया पवमानेष्टौ निर्वापसाधनं नास्ति । अग्निहोत्रहवणी हि प्रकृतौ निर्वापसाधनं सा चाऽऽधानकाले न संभवति । अग्निहोत्रस्याऽऽधानोत्तरकालीनत्वेन तद्धोमसाधनभूता- यास्तस्या अपि तथात्वादिति प्राप्ते ब्रूमः। मुख्यो निर्वापस्तं प्रति गुणभूताऽग्निहोत्रहवणी । न हि गुणलोपेन मुख्यो लोप्तुमर्हति । किञ्चाऽधानकाले स्वरूपेणैवाविद्यमानाया अग्निहोत्रहवण्याः साधनत्वं दूरापेतम् । ततः साधनाभावादित्यनुपन्यासः । तस्मान्निर्वापो न लुप्यते । पञ्चमाध्यायस्य तृतीयपादे- चिन्तितम्- आहिते पवमानेष्टिसंस्कृते वाऽग्निहोत्रकम् । आधानेनाग्निनिष्पातेस्तन्मात्रे कर्म संभवेत् ॥ आधानस्यानपेक्षस्य नाप्युत्पादकता मता । समुच्चितस्य हेतुत्वात्कर्म स्यादिष्टिसंस्कृते ॥ (इति)। अग्न्याधानादूर्ध्वं विलम्ब्य पवमानेष्टयः क्रियन्ते । द्वादशसु रात्रीष्वनुनिर्वपेदितीष्टिकालविधानात् । ताभ्यः पुरा द्वादशसु दिनेष्वग्निहोत्रमनुष्ठेयम् । आधानमात्रेणाऽऽहवनीयाद्यग्नेर्निष्पन्नत्वादिति प्राप्ते ब्रूमः । आधानेन पवमानेष्टिनिरपेक्षेण नाऽऽहवनीयाद्यग्निरुत्पद्यते । अन्यथा पवमानेष्टिवैयर्थ्यप्रसङ्गात् । न च .विकल्पः । आधानमुपजीव्य तस्मादुत्तरकाले विधानात् । तत इष्टिभिः समुच्चित्यैवा · ऽऽधानमग्न्युत्पादकमितीष्टिभिः संस्कृते वह्नौ पश्चादग्निहोत्रानुष्ठानम् । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे प्रथमप्रपाठके पञ्चमोऽनुवाकः ॥ ५ ॥ अथ षष्ठोऽनुवाकः । पञ्चमे पवमानहवींषि संक्षिप्योक्तानि । अथ षष्ठे तद्विस्तारो हविरन्तराणि दक्षिणाश्चोच्यन्ते। तत्र प्रथमं तावत्पवमानहविषां देवताविशेषस्य पूर्वमुक्तत्वानदनुवादेन हविर्विशेषं विधत्ते- दे॒वा॑सु॒रा संय॑त्ता आसन् । ते दे॒वा वि॑ज॒यमुप॑यन्तः॒ अ॒ग्नौ वा॒मं वसु॒ संन्य॑दधत । इ॒दमु॑ नो भविष्यति । यदि॑ नो