तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 63, कुल 345 में से
संदर्भ में पढ़ें३४ (१.१.६) तैत्तिरीयब्राह्मणम् तत् । यदे॒तानि॒ निर्वपे॑त् । न तम् । यथा॑ऽङ्गानि॒ स्युः । नाऽऽत्मा । ता॒दृगे॒व तत् , उ॒भया॑नि॒ सह॒ निरू॑प्याणि । य॒ज्ञस्य॒ सात्म॒त्वाय॑, इति । याः पूर्वोक्ताः पवमानाग्न्यादिदेवतास्तिस्रस्ता अग्न्याधेयरूपस्य देवविशेषस्य शरीराणि। यस्तु ताभ्योऽतिरिक्तोऽष्टाकपाल आग्नेयः सोऽग्न्याधेयस्य स्वरूपभूतः पूर्वोक्तशरीरत्रयस्वामी । एवं सत्याग्नेयं निरूप्य पवमानहविषामनिर्वापेऽवयवरहितः केवल आत्मैव स्यात् । अथ तानि हवींषि निरूप्याऽऽग्नेयस्य निर्वापो न क्रियेत् तदानीमात्मरहिताः केवला अवयवा एव स्युः । तस्मादाग्नेयेन सह पूर्वाणि त्रीणि हवींषि निरूप्याणि । तथा सति यज्ञस्य सावयवत्वं सात्मत्वं च संपद्यते । अथानुनिर्वाप्यहविर्द्वयं विधत्ते- उ॒भयं॒ वा ए॒तस्ये॑न्द्रि॒यं वी॒र्य॑माप्यते (४) । यो॑ऽग्निमाध॒त्ते । ऐ॒न्द्रा॒ग्नमेका॑दशकपाल॒मनु॒निर्व॑पेत् । आ॒दि॒त्यं च॒रुम् । इ॒न्द्रा॒ग्नी वै दे॒वाना॑मयात॒यामा॑नौ । ये ए॒व दे॒वते॑ अया॑तयाम्नी । ताभ्या॑मे॒वास्मा॑ इन्द्रि॒यं वी॒र्य॑मव॑रुन्द्धे । आ॒दि॒त्यो भ॑वति । इ॒यं वा अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठति, इति । अग्निमादधानस्येन्द्रियवीर्यस्य प्राप्त्या भवितव्यम् । अतस्तत्सिद्ध्यर्थमिन्द्राग्निदेवताकं पुरोडाशमनिर्वपेत् । देवानां मध्य इन्द्राग्न्योरगतसारत्वात्तत्प्रसादेनेन्द्रियवीर्यप्राप्तिर्भवति । अगतसारत्वं चानयोर्जेतृत्वlinkत्वात्तदवगन्तव्यम् । जयश्च राजसूयप्रकरणे पठ्यते - “देवा वा ओषधीष्वाजिमयुः । ता इन्द्राग्नी उदजयताम्” इति । आदित्यचरुनिर्वापेन भूम्यां प्रतितिष्ठति । भूमेरखण्डनीयत्वेनादितित्वात् । अस्य चरोः सहकारि द्रव्यं घृतं विधत्ते- धे॒न्वै वा ए॒तद्रेतः॑ (५) यदाज्य॑म् । अन॒डुह॑स्तण्डुलाः॑ । मि॒थु॒नमे॒वाव॑रुन्द्धे । घृ॒ते भ॑वति । य॒ज्ञस्यालू॑क्षान्तत्वाय, इति ।