तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 83, कुल 345 में से
संदर्भ में पढ़ें५४ (१.१.१०) तैत्तिरीयब्राह्मणम् तत्प्र॒जाप॑तिः॒ पर्य॑गृह्णात् । शस्य॑ ँ॑प॒शून्मै॑ गोपा॒येति॑ (२) । सा च॑तु॒र्थमुद॑क्रामत् । तत्प्र॒जाप॑तिः॒ पर्य॑गृह्णात् । सप्र॑थ सभां॑ मे॑ गोपा॒येति॑ । सा प॑ञ्च॒ममुद॑क्रामत् । तत्प्र॒जाप॑तिः॒ पर्य॑गृह्णात् । अहे॑ बु॒ध्निय॒ मन्त्रं॑ मे गोपा॒येति॑ । अ॒ग्नीन्वाव सा तान्व॑क्रमत । तान्प्र॒जाप॑तिः॒ पर्य॑गृह्णात् । अथो॑ पा॒ङ्क्तमे॒व, इति । येयं गौः प्रजापतिना स्वार्थमेव स्वीकृता विराट् सा प्रजापतेः सकाशात्प्राङ्मुखी सत्युदक्रामत् . तदा प्रजापतिरथर्वेति मन्त्रेण तां विराजं परितो निरुद्धवान् । हेऽथर्व चतुर्थवेदप्रवर्तकाचार्यरूप दक्षिणाग्ने, यद्वा हिंसारहितं मे पितुं मदीयमन्रं गोपाय । एवमुत्तरेषु चर्तुषु योज्यम् । नरेभ्यो मनुष्येभ्यो हितो नर्यो गार्हपत्यः । ऋत्विग्भिः प्रशंसनीयरूपत्वाच्छंस्य आहवनीयः । प्रथया कीर्त्या सह वर्तमानत्वात्सप्रथः सभ्यः । अहिंसकत्वादबुध्ने मूले जगदादावुत्पन्नत्वादहिर्बुध्निय आवसथ्यः । ऋगादिर्भन्त्रः । इत्थं सैव विराट् तानग्नीन्पञ्चधा विवेक्तुं पञ्चवारं व्यक्रामत् । तान्यञ्चाग्नीन्प्रजापतिः परितः स्वीकृतवान् । अपि च क्रमेणावस्थानात्पञ्चसंख्यान्वयाद्वा पङ्क्तमेवैतावदग्निविषयां गृहीतवान् । इदानीं विधत्ते- पा॒ङ्क्तिर्वा ए॒षा ब्राह्म॑णे प्रवि॑ष्टा (३) । तामा॒त्मनोऽधि॑ निर्मि॑मीते । यद॒ग्निरा॑धी॒यते॑ । तस्मा॑दे॒ताव॑न्तो॒ऽग्नय॑ आधी॑यन्ते । पा॒ङ्क्त वा इद ँसर्व॑म् । पा॒ङ्क्तेनै॒व पा॒ङ्क्त ँ स्पृणोति, इति । पूर्वोक्तानामाथर्वंत्यादीनां मन्त्राणां ब्राह्मणेनाधीतत्वात्प्रजापति- प्रतिपाद्यत्वाद्वा पङ्क्तिर्विप्रे प्रविष्टा । तथा सत्यग्न्याधानेन तां पङ्क्तिं तस्मादुत्पादयति । तस्मादेतावन्तः पञ्चाग्नय आधातव्याः । यदिदं मनुष्यपश्वादिरूपं जगत्सर्वं पञ्चसंख्यॉपेतत्वात्पाङ्क्तम् । शिरो हस्तौ पादौ चेत्येवं मनुष्याणां पञ्चावयवाः । शिरसा पुच्छेन वा सह चत्वारः पादाः पशूनां पञ्चावयवाः। अतः पञ्चसंख्यायुक्तेनैवाग्निना पञ्चसंख्यायुक्तं जगत्प्रीणयति । अथ मन्त्राणां तात्पर्यं क्रमेण दर्शयति-