भारतकोश
तैत्तिरीयोपनिषद् (शाङ्करभाष्य सहित)

तैत्तिरीयोपनिषद् (शाङ्करभाष्य सहित)

Taittiriya Upanishad with Shankara Bhashya

आदि शङ्कराचार्य द्वारा

स्रोत: Gita Press Gorakhpur · Gita Press, Gorakhpur (उद्गम)

DevanagariSanskritpublished261 पृष्ठ

पृष्ठ 171, कुल 261 में से

संदर्भ में पढ़ें
पृष्ठ 171

अनु० ६ ] शाङ्करभाष्यार्थ १६५

[संस्कृत-मूल]
कार्यान्तरमेव स्यादिति चेत् ?
तदेवानुप्राविशदिति जीवात्मरूपं
कार्यं नामरूपपरिणतं कार्यान्तर-
मेवापद्यत इति चेत् ?
न; विरोधात् । न हि घटो
घटान्तरमापद्यते । व्यतिरेक-
श्रुतिविरोधाच्च । जीवस्य नाम-
रूपकार्यव्यतिरेकानुवादिन्यः
श्रुतयो विरुध्येरन् । तदापत्तौ
मोक्षासंभवाच्च । न हि यतो
मुच्यमानस्तदेवापद्यते । न हि
शृङ्खलापत्तिर्बद्धस्य तस्करादेः ।
बाह्यान्तर्भेदेन परिणतमिति
चेत्तदेव कारणं ब्रह्म शरीराद्या-
धारत्वेन तदन्तर्जीवात्मनाधेय-
त्वेन च परिणतमिति चेत् ?

  • अर्थात् जीवको तो नाम-रूपात्मक कार्यसे मुक्त होना इष्ट है, फिर वह उसीको क्यों प्राप्त होगा ?