भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 131, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 131

श्लोक ७७ ] प्रथमाह्निकम् । १२१ नहि सर्वात्मत्वेन अगृहीतत्वाद् अगृहीत एवासौ इति वक्तुं युज्यते अनुभवविरोधात् । तद्वत् नादबिन्द्वाद्यात्मकशक्तिद्वारेण शिवोऽपि ज्ञात एव भवति इति सिद्धान्तः । तदुक्तं तत्रैव 'प्रत्यक्षेण यथा वृक्षो रूपमात्राद्विगृह्यते । रसादयो गृहीता नो तथेशो ज्ञानशक्तितः ॥ गृह्यते तत्स्वभावेन वस्तुभावविवर्जनात् ।' इति । तथा 'बिन्दुर्नादस्तथा शक्तिः शून्यत्वे परिकल्पिताः । चेतसः स्थितिहेत्वर्थं पुनर्नित्यं स्थिरं भवेत् ॥ अतीन्द्रियः सुसूक्ष्मत्वात्सूक्ष्मा शक्तिः स तद्गतः । ज्ञानशक्तिर्मता सापि तज्ज्ञानाज्ज्ञात एव सः ॥' इति । एवं शक्तिरेव परतत्त्वाधिगमे परमुपायः इति सिद्धम् । सा च भुवनादिरूपतया अनन्त- प्रकारा इत्युक्तप्रायम् ॥७७॥ एवं यत्किंचन जडाजडात्मकविश्ववैचित्र्यं, यच्च तद्विषयं सृष्ट्यादि जाग्रदाद्यवस्थादि वा तत्सर्वं परमेश्वरस्य शक्तिस्फार एव इत्याह पं० १७ क० पु० जाग्रदवस्थादि इति पाठः । १६