भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 17, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 17

श्लो० १ ] प्रथमाह्निकम् । ७ पूरिता 'तनुः' स्वभावो यस्य सः, अनन्योन्मुखतया स्वतन्त्रः-इति यावत् । अत एव 'पञ्चभिः' चिदानन्दे- च्छाज्ञानक्रियात्मभिः 'मुखैः' '...................शैवी मुखमिहोच्यते ।' इत्युक्त्या शक्तिभिः 'गुप्ता' परिपूरिता प्रबन्धेना- नुवर्तमाना 'रुचिः' अभिलाषो विशेषानुपादानात् कृत्यपञ्चकविषयो यस्यासौ, सदैव पञ्चविधकृत्यकारी- इत्यर्थः । तदुक्तम् 'सृष्टिसंहारकर्तारं विलयस्थितिकारकम् । अनुग्रहकरं देवं प्रणतार्तिविनाशनम् ॥' इति । तदेवम् अत्र विसर्गप्रसरस्वभावत्वेन जग- द्वैचित्र्यबीजभूतं शिवशक्तिसंघट्टात्मकपरत्रिकशब्द- वाच्यम् अनाख्यात्मकं विघ्नौघप्रध्वंसाय परामृष्टम् । तदुक्तम् 'तत्रापि शक्त्या सहितः स्वात्ममय्या महेश्वरः । यदा संघट्टमासाद्य समापत्तिं परां व्रजेत् ॥ पं० ७ क० पु० पञ्चकविशेष इति पाठः । पं० १५ क० पु० तत्रापि मर्त्यैरहितः स्वात्मशक्त्या महेश्वरः इति, ख० पु० तत्रापि शक्त्या रहितः इति मौलिकः पाठः प्रथमोपन्यस्त आसीत् इति संदृश्यते ।