तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 19, कुल 368 में से
संदर्भ में पढ़ेंश्लो० १ ] प्रथमाह्निकम् । ९ ‘कुलं पदमनामाख्यं....................।’ इत्यनाख्यरूपम्-इत्यर्थः । अन्यच्च कीदृक् ?—इत्या ह ‘तदुभय’ इति । तच्च तत् व्याख्यास्यमानं सृष्टिसंहा- रात्मकम् ‘उभयं’ तस्य ‘यामलं’ लोलीभावः, ततः ‘चक्रद्वयेऽन्तः कचति लोलीभूता परा स्थितिः।’ इति । तथा ‘प्रभवाप्यययोरन्तर्लोलीभावात्क्रमोऽवताराख्यः ।’ इत्यादिनीत्या स्फुरितसत्ताकः स्थित्यात्मा विविधः सर्गस्तन्मयम् । परैव हि अनाख्या भगवती संवित् स्वस्वातंत्र्यात् स्वात्मनि सृष्ट्यादि अवभासयति विलाययति च—इत्यभिप्रायः । यदुक्तम् ‘यस्य नित्योदिता ह्येकाभासा कालक्षयंकरी । राजते हृदयाम्भोजविकासिगगनोदरे ॥ सृष्टिस्थित्युपसंहाररूपा तद्धरणे रता ।’ पं० १ ख० पु० कुलाकुलं पदमनामकमिति पाठः । पं० २ क० पु० इत्यनामा ख्यरूपमिति पाठः । पं० १० ख० पु० विलापयतीति पाठः । २