तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 198, कुल 368 में से
संदर्भ में पढ़ें१८८ श्रीतन्त्रालोकः । उक्तम्। यतस्ताभिः-भेदप्रथामयीभिः कल्पनाभिः, कृतः-स्वशिल्पेन कल्पितः, बहिर्भूतोऽवच्छिन्नो योऽसौ उच्चारादिः अर्थः तत्साधनम्, तुशब्दो व्यति- रेके। शाक्ते हि विकल्प एव अर्थः, इह तु बाह्योऽपि इति, अत एव न तत्र उच्चारादिः। ननु उपाय- भेदादुपेयभेदोऽपि स्याद् ? इत्याशङ्क्योक्तं 'भेदो नात्रापवर्गः' इति। स्वरूपप्रथनं हि अपवर्गः, तच्च सर्वैरेव हि द्वारद्वारिभावेन भवति, इति भावः॥१४६॥ ननु ज्ञानमेव उपायः इति सामान्येन प्रतिज्ञातं, तत्कथमाणवे क्रियोपायत्वमुक्तम् ? इत्याशङ्क्याह यतो नान्या क्रिया नाम ज्ञानमेव हि तत्तथा । रूढेर्योगान्ततां प्राप्त- मिति श्रीगमशासने ॥१५०॥ अन्या इति अर्थाज्ज्ञानात्, यतः तज्ज्ञानमेव रूढेः प्ररोहात् योगस्यान्तः पराकाष्ठा, तत्त्वं प्राप्तं सत् तथा 'क्रिया' इति सर्वत्र अभिधीयते इत्यर्थः । पं० ४ क० पु० विकल्प्य एवार्थ इति पाठः ।