तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 215, कुल 368 में से
संदर्भ में पढ़ेंश्लोक १७३ ] प्रथमाह्निकम् । २०५ प्रतिः आभिमुख्ये, आभिमुख्यं च वस्त्वन्तरा- पेक्षं, तच्च अत्र औचित्यात् चिन्मात्रम् इत्युक्तं 'ज्ञेयाभिमुखेति' । अतिगरीयस्त्वमेव व्याख्यातुं द्राक्प्ररूढत्वेत्याद्युक्तम्, द्राक् इत्यनेन यथोक्तवि- कल्पक्रमोपारोहाभावः सूचितः ॥ १७२ ॥ ननु कथमनयोर्भिन्नविभक्तिकयोः सामानाधिक- रण्यम् ? इत्याशङ्क्याह तृतीयार्थे तसि व्याख्या वा वैयधिकरण्यतः । तृतीयार्थे तसि, इति तसि इत्यनुबन्धलोपे प्रयोगः । तृतीयार्थे इति सर्वविभक्त्यन्तात् प्रातिपदिकात् तस्येष्टेः । वा शब्दः पक्षान्तरे । वैयधिकरण्यतः इति गुरुणा कृतो यः प्रतिबोधः ततः इत्यर्थः ॥ आवेशश्चास्वतन्त्रस्य स्वतद्रूपनिमज्जनात् ॥ १७३ ॥ परतद्रूपता शम्भो- राद्याच्छक्त्यविभागिनः । पं० ७ ख० पु० इत्याह इति पाठः । पं० १० क० पु० तृतीयार्थे तस् तसीति पाठः । पं० १३ क० ग० पु० यो बोध इति पाठः । पं० १६ ख० पु० तद्रूपमिति शोधितः पाठः ।