तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 219, कुल 368 में से
संदर्भ में पढ़ेंश्लोक १७८ ] प्रथमाह्निकम् । २०६ शिव एव सर्वक्रियाणां कर्ता विज्ञेयः इत्यादि परामर्शैः अहंप्रतीतिम् अन्तरीकृत्य वेद्यतया प्रतिपादयति । इदमेव हि परं स्वातन्त्र्यं-यत् स्वं स्वरूपं वेदकमेव सत् वेद्यत्वेन अवभासयति । अत एव कल्पितं वस्तुशून्यम् इत्युक्तम् । इतरत् इति जडं नीलादि । तथा इति ज्ञेयतया । तत्र नीलज्ञानम् इत्यादौ चितो नीलादिना दर्पणमुखन्यायेन प्रतिबिम्बन- मात्रमेव समावेशार्थो न तु तादात्म्यं, तथात्वे हि नीलादेर्ज्ञानात्मभूतत्वात् ज्ञानमेव अवशिष्यते इति प्रतिच्छन्दव्यवस्थैव न स्यात् । संकुचितायाः चितः पुनरसंकुचितया चितैकात्म्यमेव तस्या एव वस्तुतो भावात्, तेन बोधैकात्म्यमेव समावेशार्थः इति युक्तमुक्तम् अस्वतन्त्रस्य परतद्रूपता नामावेशः इति ॥ १७६ ॥ १७७ ॥ तदेवोपसंहरति तेनाविकल्पा संवित्ति- र्भावनाद्यनपेक्षिणी ॥ १७८ ॥ पं० २ क० पु० अधरीकृत्येति पाठः । पं० १० क० ख० पु० प्रतिकर्मव्यवस्थैवेति पाठः । पं० ११ क० पु० असंकुचितचिदैकात्म्यमेवेति पाठः । २७