भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 22, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 22

१२ श्रीतन्त्रालोकः । इति । अथ च 'हृदयं' निजबलसमुद्भूतिलक्षणं तत्त्वं विशेषानुपादानात् सर्वस्य सम्यक् प्रख्योपाख्यारोहेण 'स्फुरतात्' विकसतात्—इत्यर्थः । तच्च कीदृक् ? 'तदुभयं' इति । तत् आद्यार्धव्याख्यास्यमानं माता- पितृलक्षणम् 'उभयं' तस्य यत् 'यामलम्' आद्यया- गाधिरूढं मिथुनं, तस्य परस्परोन्मुख्येन चमत्कार- तारतम्ययोगात् 'स्फुरितः' सोल्लासो योऽसौ 'भावः' आशयविशेषः, तेन यो 'विसर्गः' क्षेपः कुण्डगोला- ख्यद्रव्यविशेषनिःष्यन्दः, स प्रकृतिर्यस्य तत् ; अत एव च 'अनुत्तरे' श्वेतारुणात्मदेवतामयताद्यनुसंधा- नेन पशुशुक्रशोणितवैलक्षणयादुत्कृष्टे 'अमृते' सारे '.............कुलमुत्पत्तिगोचरः।' इत्युक्त्या 'कुलम्' आकारो यस्य तत् । किं तदुभयम् ?—इत्याह 'जननी जनकश्च' इति । कीदृशी पं० २ ख० पु० लक्षणं सतत्त्वमिति पाठः । पं० ४ क० ख० पु० तच्च तदाद्यार्धेति 'कीदृक्-तदुभयेति' वाक्यद्वयहीनश्च पाठः । पं० ६ क० पु० आश्रयविशेषस्तेन विमलो यो विसर्ग इति, कुण्डगोलकाख्यो द्रव्येति च पाठः । पं० १२ क० पु० वैलक्षण्याद्युत्कृष्टे इति पाठः । पं० १३ ख० पु० कुल उत्पत्तिगोचरे इति पाठः ।