तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 297, कुल 368 में से
संदर्भ में पढ़ेंश्लोक २८४ ] प्रथमाह्निकम् । २८७ रहस्यचर्या मन्त्रौघो मण्डलं मुद्रिकाविधिः । एकीकारः स्वस्वरूपे प्रवेशः शास्त्रमेलनम् ॥२८३॥ आयातिकथनं शास्त्रो- पादेयत्वनिरूपणम् । सामान्यसंज्ञया कीर्तनं पूर्वज उद्देशः, विशेषसं- ज्ञया कीर्तनम् अनुज उद्देशः, स एव च विभागः इत्यन्यत्र उक्तः। तत्र पूर्वजमुद्देशमाह-विज्ञानभित् इत्यादिना निरूपणम् इत्यन्तम्, विज्ञानानि शाम्भ- वादीनि भिद्यन्ते यत्र इति । गतोपायः इत्यनुपायः । पौत्रिके विधौ इति पौत्रिकं विधिमाश्रित्य । दीक्षा इति पूर्वेण संबन्धः । प्रमेयप्रक्रिया इत्यर्थात् पौत्रिके विधौ इति योज्यम् । यद्वक्ष्यति 'तदाह्निकानुजोद्देशे कथितं पौत्रिके विधौ ।' इति ॥२७८-२८३॥ पं० १ क० पु० रहस्यशौचमन्त्रौघ इति, ख० पु० रहस्यचर्चेति च पाठः । पं० ३ क० पु० एकीकारः स्वरूपेण प्रबोधः शास्त्रेति पाठः । पं० ६ क० पु० पादेयत्वे न्यरूपयत् इति पाठः । पं० ७ क० पु० आयातिकीर्तनमिति पाठः ।