भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 324, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 324

२ श्रीतन्त्रालोकः । दप्यनुपायस्योत्कृष्टत्वम्, इति - प्रथमं तत्स्वरूपमे- वाभिधातुमाह्निकान्तरारम्भं द्वितीयार्धेन प्रतिजानीते यत्तत्राद्यं पदमविरतानुत्तरज्ञप्तिरूपं तन्निर्णेतुं प्रकरणमिदमारभेऽहं द्वितीयम् ॥१॥ तन्निर्णयमेवाह अनुपायं हि यद्रूपं कोऽर्थो देशनयात्र वै । सकृत्स्याद्देशना पश्चा- दनुपायत्वमुच्यते ॥२॥ वै-शब्दोऽवधारणे, तेन नैव कश्चिदर्थः इत्यर्थः । अत्रैव समाधत्ते 'सकृत्स्यात्' इत्यादिना, देशना इत्युपलक्षणं - तेन सिद्धदर्शनाद्यपि ग्राह्यं, यदुक्तम् 'सिद्धानां योगिनीनां च दर्शनं चरुभोजनम् । कथनं संक्रमः शास्त्रे साधनं गुरुसेवनम् ॥ इत्याद्यो निरुपायस्य संक्षेपोऽयं वरानने ।' इति । सकृदिति - न पुनरुपायानुभवः पौनःपुन्ये- नेत्यर्थः । अत एवाह 'पश्चादनुपायत्वमुच्यते' इति, पं० ३ क० पु० यत्र त्वाद्यं परमशिवतानुत्तरेति, ख० पु० यत्तत्राद्यमिति पाठः । पं० ४ क० ख० पु० मिदं त्वारभेयं द्वितीयमिति पाठः ।