तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 33, कुल 368 में से
संदर्भ में पढ़ेंश्लो० ६ ] प्रथममाह्निकम् । २३ तत्तदिन्द्रियप्रसृतसंविद्वारेण 'उच्छलयतात्' विका- सयतात्, तदेकमयतामुत्पादयतात् इत्यर्थः । अब्धिस- मुच्छलनसमुचितत्वाच्च 'स्फुरदिन्दुकान्तिः'इत्युक्तम् । वस्तुतो हि अपानव्याप्तिरस्यास्ति इत्येवं-निर्देशः । अथ च 'देवीसुतो' वटुकोऽप्येवंविधः, किंतु शरीरस्य धवलिम्ना 'स्फुरदिन्दुकान्तिः' । अस्य हि प्राणव्या- प्तिरस्ति इत्येवं निर्दिशन्ति गुरवः । 'देवीसुत' इत्यु- भयोरपि कुलशास्त्रोचितोऽयं व्यपदेशः । तदुक्तम् 'देवीपुत्रोऽत्र वटुकः स्वशक्तिपरिवारितः ।' इति । 'गणेशो विघ्नहर्तासौ देवीपुत्रः ..........।' इति च ॥ ६ ॥ इह खलु शास्त्रादौ '............स्रोतोभेदं संख्यानमेव च । प्रवर्तयेद् गुरुं स्वं च स्तेयी स्यात्तदकीर्तनात् ॥' पं० २ ग० पु० उत्पादयेतामिति पाठः । पं० ५ क० पु० अत एव देवीति पाठः । पं० ७ ख० पु० व्याप्तिरस्तीति गुरव इति 'एवं निर्दिशन्ति' इति वाक्यहीनः पाठः ।