तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 355, कुल 368 में से
संदर्भ में पढ़ेंश्लोक ३६ ] द्वितीयमाह्निकम् । ३३ निखिलबन्धः, अत एव भैरवीभावेन भगवदद्वयज्ञाना- पत्त्या स्वात्मनि कृतकृत्यत्वेन – आकांक्षणीयस्यैवा- भावात् पूर्णः – अनन्योन्मुखतया स्वात्मन्येव विश्रा- न्तः, तस्येयता निखिलस्य लोकस्य ग्रन्थकर्तव्यमवश्यं कार्यं स्वात्मप्रत्यभिज्ञापनं, तन्मात्रमेवेदं स्फुटम् – अपरिम्लानं कृत्यं – लोकानुग्रह एवास्य कर्तव्य इत्यर्थः, नहि अस्यात्मनि प्राप्तप्राप्तव्यत्वात्किंचित्कर- णीयमस्तीति भावः, यद्गीतं भगवता 'यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते ॥' इति । 'न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥' इति च ॥३६॥ द्विविधाश्च परानुग्रहाः–निमलसंविदोऽनिर्मल- संविदश्च, तत्र निर्मलसंविदः प्रति तावन्निरुपकरण- मेवास्यानुग्रहकारित्वम्, इत्याह पं० १ क० पु० ज्ञेयज्ञानापपत्त्या इति पाठः । ५