भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 45, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 45

श्लो० १८ ] प्रथमाह्निकम् । ३५ इति । 'स्त्रीमुखे निक्षिपेत्प्राज्ञः स्त्रीमुखाद्ग्राहयेत्पुनः ।' इत्याद्युक्तेः कुलप्रक्रियायां दूतीमुखेनैव शिष्यस्य ज्ञानप्रतिपादनाम्नायात् इह गुरुतद्दूत्योः समस्कन्ध- तया उपादानम् ॥ १६ ॥ ननु सामान्येन त्रिकदर्शनप्रक्रियाकरणं प्रतिज्ञाय, संभवत्यपि तदर्थाभिधायिनि शास्त्रजाते किमिति श्रीमालिनीविजयोत्तरमेवाधिकृत्य तन्निर्वाहयिष्यते इत्याशङ्क्याह न तदस्तीह यन्न श्री-मालिनीविजयोत्तरे । देवदेवेन निर्दिष्टं स्वशब्देनाथ लिङ्गतः ॥१७॥ 'श्रीमालिनीविजयोत्तरे' इति नादि-फान्ताया मालिन्या 'विजयेन' सर्वोत्कर्षेण उत्तरति सर्वस्रोतो- भ्यः प्लवते, सारभूतत्वात्सर्वशास्त्राणाम् ॥ १७ ॥ एतदेवाह दशाष्टादशवस्वष्टभिन्नं यच्छासनं विभोः । तत्सारं त्रिकशास्त्रं हि तत्सारं मालिनीमतम्॥१८॥ पं० ६ क० पु० सामान्येनेति पाठः ।

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित) · पृष्ठ 45, कुल 368 में से · BharatKosha