तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 58, कुल 368 में से
संदर्भ में पढ़ें४८ श्रीतन्त्रालोकः । पदिशेयुः इत्यलं महागुरूणामुपदेशपरीक्षणदुःशि- क्षया । ननु शास्त्राणां 'यतः शिवोद्गवाः सर्वे शिवधामफलप्रदाः ।' इत्याद्युक्तेरेकत्वनियामककारणफलयोरैक्यमस्ति, इह किंनिबन्धनमेषामेवं नानात्वमुक्तंः ? सत्यं - किन्तु अनुग्राह्याशयभेदादेषां नानात्वं कल्पितम् । यदुक्तं 'सर्वमेतत्प्रवृत्त्यर्थं श्रोतॄणां तु विभेदतः । अर्थभेदात्तु भेदोऽयमुपचारात्प्रकल्प्यते ॥ फलभेदो न कल्प्योऽत्र कल्प्यश्चेदद्यथायथम् ।' इति । ननु यद्येवं तत् 'वेदादिभ्यः परं शैवं शैवाद्वामं च दक्षिणम् । दक्षिणाच्च परं कौलं कौलात्परतरं नहि ॥' इत्यादिना उक्तमेषां यथायथमुत्कृष्टत्वं युक्तं न स्यात् , ? नैतत् - द्वारद्वारिभावेन एषामुपायोपेय- भावस्य उक्तत्वात्, तेन परमाद्वयोपदेशप्रतिपादक- पं० १ क० ख० पु० महागुरूपदेशेति पाठः । पं० ४ ख० पु० एकत्वनियामकं कारणं फलयोरित्याद्यसमस्तवाक्यात्मा पाठः । पं० १२ क० पु० दक्षिणात्तत्परमिति पाठः । पं० १४ ख० पु० द्वारिद्वारभावेनेति, उपायोपायभावस्येति च पाठः ।