तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 61, कुल 368 में से
संदर्भ में पढ़ेंश्लोक २१ ] प्रथमाह्निकम् । ५१ त्रिनयनप्रसादासादितप्रकृष्टसिद्धेः किं नामासा- ध्यम् इति भावः ॥ २० ॥ एवं चेयं कृतिः सर्वेषामेव ग्राह्या भवेत्, इति प्रतिपादयितुमाह श्रीशम्भुनाथभास्कर- चरणनिपातप्रभापगतसंकोचम् । अभिनवगुप्तहृदम्बुज- मेतद्विचिनुत महेशपूजनहेतोः ॥ २१ ॥ — आदिवाक्यं — हृदयं शास्त्रात्मसतत्त्वं, महेश्वरस्य पूजनं 'पूजा नाम न पुष्पाद्यैर्या मतिः क्रियते दृढा । निर्विकल्पे महाव्योम्नि सा पूजा ह्यादराल्ल्यः ॥' इत्याद्युक्त्या तत्तद्वक्ष्यमाणज्ञप्तिक्रमेण स्वात्मतया प्रत्यभिज्ञानम् । अतश्च महावाक्यार्थेन एकमेवादि- पं० १ क० पु० आसादितस्याष्टसिद्धेरिति, ख० पु० प्रसादादासादितप्रकृष्टसिद्धे- रित्यभिप्राय इति पाठः पं० ३ आदिवाक्यमिति पदं ख० पुस्तकात् प्रक्षिप्तम् ।