तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 76, कुल 368 में से
संदर्भ में पढ़ें६६ श्रीतन्त्रालोकः । इत्याश्रयपरावृत्तेः का वार्त्ता इति कृतं क्षणिकवा- दिनां मोक्षेण । बन्धमोक्षौ च स्थिरैकादिपक्षे युज्येते, बद्धो हि मोक्षाय प्रवर्तते, प्राप्य च निवृत्तो भवति इति, सन्तानश्चैको न विद्यते, तस्य भेदा- भेदविकल्पोपहृतत्वात् । 'अन्तः' संविद्रूपतायामपि 'शून्यो ऽ हं' भवामि इति ज्ञानं माध्यमिकानाम् । ते खलु सर्वभावनैःस्वाभाव्यवादिनः संविदोऽपि नैःस्वा- भाव्यान्मिथ्यात्वमभिदधतस्तच्छून्यतायामेव मोक्ष- माचक्षीरन् । यदाहुः 'चित्तमात्रमिदं विश्वमिति यादेशना मुनेः । तत्रासपरिहारार्थं बालानां सा न तत्त्वतः ॥ सापि ध्वस्ता महाभागैश्चित्तमात्रव्यवस्थितिः ।' इति, तदप्ययुक्तं,-संविदो हि मिथ्यात्वेन स्वतन्त्र- रूपापाकरणेऽपि मिथ्यात्वे सत्तैव न भवेत्, तस्याः नीलादिवत् परतन्त्ररूपत्वाभावात्, नीलादीनां हि मिथ्यात्वेन स्वतन्त्ररूपापाकरणे ऽ पि संविदात्मत- पं० १ ग० पु० आशयपरावृत्तेरिति पाठः । पं० ४ ख० पु० संतानश्चैकेन विद्यते इति पाठः । पं० ७ ख० पु० स्वभाववादिन इति, नैःस्वभावादिति च पाठः ।