तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 85, कुल 368 में से
संदर्भ में पढ़ेंश्लोकः ३८ ] प्रथमाह्निकम् । ७५ ‘तेन स्वरूपस्वातन्त्र्यमात्रं मलविजृम्भितम्।’ इति। तदेव पशोराणवादिमलत्रययोगिनोऽपि तस्य मातुर्देशकालाद्यवच्छिन्नत्वान्नियतदृक्क्रियास्वाभासा- लोचनात्मकं ज्ञानम् । परमेश्वर एव हि सर्वज्ञताद्यप- हस्तनेन अणुतां प्रापितस्य स्वात्मनः पुनरपि कला- दियोगं कृतवान्, येनास्य नियतं ज्ञत्व-कर्तृत्वाद्य- भियुक्तं । तदुक्तं ‘असूत सा कलातत्त्वं यद्योगादभवत्पुमान् । जातकर्तृत्वसामर्थ्यो विद्यारागौ ततोऽसृजत् ॥ विद्या विवेचयत्यस्य कर्म तत्कार्यकारणे । रागोऽपि रञ्जयत्येनं स्वभोगेष्वशुचिष्वपि ॥ नियतिर्योजयत्येनं स्वके कर्मणि पुद्गलम् । कालोऽपि कलयत्येनं त्रुट्यादिभिरवस्थितः ॥’ इति। ज्ञानस्वरूपस्य प्रथममुद्देशेऽपि अवश्योच्छेद्यत्व- प्रतिपादनार्थमादावज्ञानस्वरूपं निरूपितम् ॥ ननु पुंसो बुद्धिवृत्त्यात्मकं ज्ञानं निर्विकल्पकम् पं० ८ क० पु० अभवत्पुन इति पाठः । पं० ६ ख० पु० ज्ञातकर्तृत्वेति पाठः । पं० १० ख० पु० विवेदयत्यस्येति पाठः । पं० १४ क० पु० अवच्छेद्यत्वेति पाठः ।