तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 9, कुल 368 में से
संदर्भ में पढ़ेंॐ काश्मीर-संस्कृतग्रन्थावलिः । ग्रन्थाङ्कः २३ श्रीतन्त्रालोकः । श्रीमन्महामाहेश्वराचार्यवर्य-श्रीमदभिनवगुप्ताचार्यविरचितः । श्रीमन्महामाहेश्वराचार्य-श्रीजयरथकृतविवेकाभिख्यटीकोपेतः श्रीभारतधर्ममार्तण्ड-कश्मीरमहाराज-श्रीप्रतापसिंहवरप्रतिष्ठापिते प्रत्नविद्याप्रकाश- ( रिसर्च ) कार्यालये तदध्यक्ष-महामहोपाध्याय-पण्डित-मुकुन्दराम-शास्त्रिणा उद्दिष्टकार्यालयस्थेतरपण्डितसहायेन संगृह्य, संशोधन-पर्यायाङ्कन-विवरणादिसंस्करणोत्तरं पाश्चात्यविद्वत्परिषत्संमताधुनिकसुगमशुद्धरीत्युपन्यासादिसंस्कारैः परिष्कृत्य श्रीप्रयागपत्तने इंडियनप्रेस-नाम्नि मुद्रणालये मुद्रापयित्वा प्राकाश्यमुपनीतः । ( प्रथमो भागः ) संवत् १९७५ खैस्ताब्दः १९१८ काश्मीर-श्रीनगर । ( अस्य ग्रन्थस्य सर्वे प्रकाशन-मुद्रापणाद्यधिकाराः प्रोक्तमहाराजवर्यैः स्वायत्तीकृताः सन्ति )