तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 93, कुल 368 में से
संदर्भ में पढ़ेंश्लोक ४५ ] प्रथमाह्निकम् । ८३ न केवलमेतदेवास्य ततः प्राधान्यनिमित्तं याव- दन्यदपि इत्याह दीक्षापि बौद्धविज्ञान- पूर्वा सत्यं विमोचिका । तेन तत्रापि बौद्धस्य ज्ञानस्यास्ति प्रधानता ॥४५॥ इह ‘सर्वलक्षणहीनोऽपि ज्ञानवान्गुरुरुत्तमः ।’ इत्याद्युक्तेरधिगतशास्त्रार्थस्यैव हि गुरोर्दीक्षायाम् अधिकारः, अत एव तस्य ‘शिवशास्त्रविधानज्ञं ज्ञानज्ञेयविशारदम् ।’ इति लक्षणं प्राधान्येनोक्तं, अन्यथा पुनः ‘शास्त्रहीने न सिद्धिः स्याद्दीक्षायां वीरवन्दिते ।’ इत्याद्युक्त्या दीक्षा विमोचिकैव न स्यात्, तेन इति दीक्षायां बौद्धस्य ज्ञानस्य कारणत्वात्, नहि तेन विना तस्या निष्पत्तिरेव स्यात् ॥ ४५ ॥ न चैतदस्मदुपज्ञमेव इत्याह पं० ३ ग० पु० दीक्षापि चात्र विज्ञानपूर्वा सद्योविमोचिकेति पाठः । पं० ६ क० पु० शास्त्रस्यैव गुरोरिति, दीक्षायामेवेति एव शब्दाधिकश्च पाठः ।