भारतकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 95, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 95

श्लोक ४६ ] प्रथमाह्निकम् । ८५ सर्वे मन्त्रात्मका देवाः सर्वे मन्त्राः शिवात्मकाः । शिवात्मकमिदं ज्ञात्वा शिवमेवानुचिन्तयेत् ॥' इति च । श्रीमत्तङ्गेऽपि 'ततः स भगवानीशः स्फुरन्माणिक्यशेखरः । वाक्यानलसमुत्थेन ज्वालावीर्येण मन्त्रराट् ॥ प्रददाह मुनेः सर्वमज्ञानं तृणराशिवत् ।' इति । 'शिववक्त्राम्बुजोद्भूतममलं सर्वतोमुखम् ॥ शिवत्वोन्मीलनं तथ्यं ज्ञानमज्ञाननाशनम् । अनेन सिद्धाः पश्यन्ति यत्तत्पदमनामयम् ॥' इति च । आदिशब्देन चिल्लाचक्रेश्वरीमतादेर्ग्रह- णम् । तदुक्तं तत्र 'बौद्धं च पौरुषेयं च द्विविधं तन्मलं स्मृतम् । तत्र दीक्षादिना याति पौरुषेयं मलं क्षयम् ॥ बौद्धमक्षयमेवास्ते तावत्तावत्समुद्रितम् । यावन्न बौद्धमेवास्य सजातीयविलापकम् ॥ पं० १ ख० पु० सर्वे वर्णात्मका मन्त्राः सर्वे वर्णाः शिवात्मका इति शोधितः पाठोऽस्ति । पं० २ क० पु० शिवात्मकमिदं कृत्वेति पाठः । पं० १५ ख० पु० बौद्धमक्षतमिति पाठः ।