भारतकोश
तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

Tantrasara of Mahamaheshvara Abhinavagupta with Commentary

महामाहेश्वर अभिनवगुप्त द्वारा

DevanagariHindipublished294 पृष्ठ

पृष्ठ 104, कुल 294 में से

संदर्भ में पढ़ें
पृष्ठ 104

आ. ४ ] तन्त्रसार-अभिनवगुप्त [ २३ अन्यत् योगाङ्गं साक्षात् उपायः,—तपःप्रभृतेः नियमवर्गस्य, अहिंसादेश्च यमप्रकारस्य, पूरकादेः प्राणायामवर्गस्य वेद्यमात्रनिष्ठत्वेन क इव संविदि व्यापारः । प्रत्याहारोऽपि करणभूमिमेव सातिशयां कुर्यात्, ध्यानधारणा- समाधयोऽपि यथोत्तरम् अभ्यासक्रमेण निर्वर्त्यमाना ध्येयवस्तुतादात्म्यं ध्यातुः वितरेयुः । अभ्यासश्च परे तत्त्वे शिवात्मनि स्वस्वभावे न सम्भवत्येव । संविद्रूढस्य प्राणबुद्धिदेहानिष्ठीकरणरूपो हि अभ्यासः— भारोद्वहनशास्त्रार्थबोधनृत्ताभ्यासवत्, संविद्रूपे तु न किञ्चित् आदातव्यं न अपसरणीयम् इति कथम् अभ्यासः । किं तर्केणापि इति चेत्, उक्तमत्र द्वैताधिवासनिऱासप्रकार एव अयं न तु अन्यत् किञ्चिदिति । लौकिकेऽपि वा अभ्यासे चिदात्मत्वेन सर्वरूपस्य तस्य तस्य देहादेः अभिमतरूपता- प्रकटीकरणं तदितररूपन्यग्भावनं च इति एष एव अभ्यासार्थः । परतत्त्वे तु न किञ्चित् अपास्यम् इति उक्तम् । द्वैताधिवासोऽपि नाम न कश्चन पृथक् वस्तुभूतः अपि तु स्वरूपाख्यातिमात्रं तत्, अतो द्वैतापासनं विकल्पेन क्रियत इत्युक्तः । अथ परमार्थः—स्वरूपं प्रकाशमानम् अख्यातिरूपत्वं स्वयं स्वातन्त्र्यात् गृहीतं क्रमेण प्रोज्झ्य विकासोन्मुखम् अथ विकसद्, अथ विकसितम् इत्यनेन क्रमेण प्रकाशते, तथा प्रकाशन- मपि परमेश्वरस्य स्वरूपमेव, तस्मात् न अत्र योगाङ्गानि साक्षात् उपायः । तर्कस्तु अनुगृह्णीयुर्यदि, सत्तर्क एव साक्षात् तत्र उपायः, स एव च शुद्धविद्या, सा च बहुप्रकारतया संस्कृतो भवति, तद्यथा—यागो होमो जपो व्रतं योग इति, तत्र भावानां सर्वेषां परमेश्वर एव स्थितिः, नान्यत् व्यतिरिक्तम् अस्ति इति विकल्पारूढिसिद्धये परमेश्वर एव सर्व- भावार्पणं यागः, स च हृद्यत्वात् ये संविदनुप्रवेशं स्वयमेव भजन्ते तेषां सुशकं परमेश्वरे अर्पणम् इत्यभिप्रायेण हृद्यानां कुसुमतर्पणगन्धादीनां बहिरुपयोग उक्तः । सर्वे भावाः परमेश्वरतेजोमया इति रूढविकल्पप्राप्त्यै परमेशसंविदनलतेजसि समस्तभावग्रासरसिकताभिमाने तत्तेजोमात्राव- शेषत्वसहसमस्तभावविलापनं होमः । तथा उभयात्मकपरामर्शोदयार्थं बाह्याभ्यन्तरादिप्रमेयरूपाभिन्नभावानपेक्षयैव एवं-विधं तत् परं तत्त्वं स्वस्वभावभूतम् इति अन्तः परामर्शनं जपः । सर्वत्र सर्वदा निरुपाय- परमेश्वराभिमानलाभाय परमेश्वरतमताभिमानेन देहस्यापि घटादेरपि अवलोकनं व्रतम् । यथोक्तं श्रीनन्दिशिखायाम् ॰॰॰॰॰॰॰॰॰॰॰॰ 'सर्वसाम्यं परं व्रतम् ।'

तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक) · पृष्ठ 104, कुल 294 में से · BharatKosha