भारतकोश
तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

Tantrasara of Mahamaheshvara Abhinavagupta with Commentary

महामाहेश्वर अभिनवगुप्त द्वारा

DevanagariHindipublished294 पृष्ठ

पृष्ठ 134, कुल 294 में से

संदर्भ में पढ़ें
पृष्ठ 134

आ. ६ ] तन्त्रसार-अभिनवगुप्त [ ५३ अथ समाने कालोदयः । समानो हार्दीषु दशसु नाडीषु संचरन् समस्ते देहे साम्येन रसादीन् वाहयति । तत्र दिगष्टके संचरन् तद्दिक्पति- चेष्टाम् इव प्रमातुः अनुकारयति । ऊर्ध्वाधस्तु संचरन् तिसृषु नाडीषु गतागतं करोति । तत्र विषुवद्दिने बाह्ये प्रभातकाले सपादं घटिकां मध्यमार्गे वहति । ततो नवशतानि प्राणविक्षेपाणाम्, इति गणनया बहिः सार्धघटिकाद्वयं वामे दक्षिणे वामे दक्षिणे वामे इति पञ्च संक्रान्तय ततः संक्रान्तिपञ्चके वृत्ते पादोनासु चतुर्दशसु घटिकासु अतिक्रान्तासु दक्षिणं शारदं विषुवन्मध्याह्ने नव प्राणशतानि । ततोऽपि दक्षिणे वामे दक्षिणे वामे दक्षिणे इति संक्रान्तिपञ्चकं, प्रत्येकं नवशतानि इत्येवं रात्रावपि, इति । एवं विषुवद्दिवसे तद्रात्रौ च द्वादश संक्रान्तयः । ततो दिनवृद्धिक्षयेषु संक्रान्तिवृद्धिक्षयः । एवम् एकस्मिन् समानमरुति वर्षद्वयं श्वासप्रश्वासयोगाभावात् । अत्रापि द्वादशाब्दोदयादि पूर्ववत् । उदाने तु द्वादशान्तावधिश्चारः स्पन्दमात्रात्मनः कालस्य । अत्रापि पूर्ववत् विधिः । व्याने तु व्यापकत्वात् अक्रमेऽपि सूक्ष्मोच्छलत्तायोगेन कालोदयः । अथ वर्णोदयः । तत्र अर्धप्रहरे अर्धप्रहरे वर्णोदयो विषुवति समः, वर्णस्य वर्णस्य द्वे शते षोडशाधिके प्राणानाम्, बहिः षट्त्रिंशत् चषकाणि इति उदयः, अयम् अयत्नजो वर्णोदयः। यत्नजस्तु मन्त्रोदयः अरघट्टघटी- यन्त्रवाहनवत् एकानुसंधिबलात् चित्रं मन्त्रोदयं दिवानिशम् अनुसंदधत् मन्त्रदेवतया सह तादात्म्यम् एति । तत्र सदोदिते प्राणचारसंख्ययैव उदयसंख्या व्याख्याता, तद्द्विगुणिते तदर्धम् इत्यादिक्रमेण अष्टोत्तरशते चक्रे द्विशत उदयः, इति क्रमेण स्थूलसूक्ष्मे चारस्वरूपे विश्रान्तस्य, प्राण- चारे क्षीणे, कालग्रासे वृत्ते संपूर्णम् एकमेवेदं संवेदनं चित्रशक्तिनिर्भरं भासते । कालभेद एव संवेदनभेदकः न वेद्यभेदः शिखरस्थज्ञानवत्, ज्ञानस्य यावान् अवस्थितिकालः स एव क्षणः, प्राणोदये च एकस्मिन् एकमेव ज्ञानम्, अवश्यं चैतत्,—अन्यथा विकल्पज्ञानम् एक न किंचित् स्यात्—क्रमिकशब्दारूषितत्वात् मात्राया अपि क्रमिकत्वात् । यदाह तस्यादि उदात्तमर्धह्रस्वम् । (पा० व्या० १-२-३२) इति । तस्मात् स्पन्दान्तरं यावत् न उदितं तावत् एकमेव ज्ञानं । अत एव एकाशीतिपदस्मरणसमये विविधर्मनुप्रवेशमुखेन एक एव असौ परमेश्वरविषयो विकल्पः कालग्रासेन अविकल्पात्मा एव संपद्यते इति । एवम् अखिलं कालाध्वानं प्राणोदय एव पश्यन्, सृष्टिसंहारांश्चविचित्रान्