भारतकोश
तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

Tantrasara of Mahamaheshvara Abhinavagupta with Commentary

महामाहेश्वर अभिनवगुप्त द्वारा

DevanagariHindipublished294 पृष्ठ

पृष्ठ 176, कुल 294 में से

संदर्भ में पढ़ें
पृष्ठ 176

आ. ९ ] तन्त्रसार-अभिनवगुप्त [ ९५ तु तस्मिन्नेव प्रमातृविश्रान्तिगते प्रमातुः पूर्णतौन्मुख्यात् तद्वारेण पूर्णतो- न्मुखतया भानं तदा तुर्यावस्था, सा च रूपं दृशाहमित्येवं-विधम् अंश- त्रयम् उत्तीर्य पश्यामीति अनुपाधिका प्रमातृता स्वातन्त्र्यसारा, नैकट्य- मध्यत्वदूरत्वैः प्रमातृप्रमाणप्रमेयताभिषेकं ददती तदवस्थात्रयानुग्राहक- त्वात् त्रिभेदा। एतदेव अवस्थाचतुष्टयं पिण्डस्थपदस्थरूपस्थरूपातीत- शब्दैर्योगिनो व्यवहरन्ति, प्रसंख्यानधनास्तु सर्वतोभद्रं व्याप्तिः महा- व्याप्तिः प्रचय इति शब्दैः। अन्वर्थं चात्र दर्शितं तन्त्रालोके श्लोकवार्तिके च। यच्च सर्वान्तर्भूतं पूर्णरूपं तत् तुर्यातीतं सर्वातीतं महाप्रचयं च निरूपयन्ति। किं च यस्य यद्यदा रूपं स्फुटं स्थिरम् अनुबन्धि तत् जाग्रत्, तस्यैव तद्विपर्ययः स्वप्नः, यः लयाकलस्य भोगः सर्ववेदनं सुषुप्तं, यो विज्ञानाकलस्य भोगः भोग्याभिन्नीकरणं तुर्यं मन्त्रादीनां स भोगः, भावानां शिवाभेदस्तुर्यातीतं सर्वातीतम्। तत्र स्वरूपसकलौ १. प्रलयाकलः २. विज्ञानाकलः ३. मन्त्रतदीश तन्महेशवर्गाः ४. शिवः ५. इति पञ्चदशभेदे पञ्च अवस्थाः। स्वरूपं प्रलयाकल इत्यादिक्रमेण त्रयोदशभेदे, स्वरूपं विज्ञानाकलशक्तिः विज्ञानाकल इत्येकादशभेदे, स्वरूपं मन्त्राः तदीशाः महेशाः शिवः इति नवभेदे; स्वरूपं मन्त्रेशाः महेशः शक्तिः शिव इति सप्तभेदे, स्वरूपं महेशशक्तिः महेशः शक्तिः शिव इति पञ्चभेदे, स्वरूपं क्रियाशक्तिः ज्ञानशक्तिः इच्छाशक्तिः शिव इति त्रिभेदे; अभिन्नेऽपि शिव- तत्त्वे क्रियाज्ञानेच्छानन्दचिद्रूपक्लृप्त्या प्रसंख्यानयोगधनाः पञ्चपदत्वम् आहुः ॥ भूम्यादौ तत्त्वजाले न हि भवति वपुस्तादृशं यत्प्रमातुः संवित्द्विश्रान्तिवन्ध्यं स्फुरति स बहुधा मातृभावोऽस्य यस्मात् । तेनास्मिन्वेद्यजाले क्रमगतकलनां निर्विकल्पामहन्ता- स्वातन्त्र्यामर्शसारां भुवमधिवसत प्राप्नुत स्वात्मसत्ताम् ॥ पहिल्ल उणाहरभावकलणुणुअब्भन्तरि एह सञ्चिचवपसय इपुणुजल इच्छिहिणिक्कलेह । संवेअण पपरूढ इउभावकलाउससग्गु भरिअइसुस्सुहुपुणुभरिउ ॥१॥