भारतकोश
तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi

अन्नम्भट्ट द्वारा

DevanagariHindipublished199 पृष्ठ

पृष्ठ 121, कुल 199 में से

संदर्भ में पढ़ें
पृष्ठ 121

कालादिकं च कार्यमात्रं प्रति कारणं भवति न तु घटमेव पटमेव वा प्रति । तथा च कार्यत्वावच्छिन्नकार्यता निरूपितकारणताशालित्वस्येश्वरादौ सत्त्वात् ईश्वरादिकं सर्वं जन्यपदार्थं प्रति साधारणकारणं भवतीत्याशयः । तदेवाह - ईश्वरेति । अदृष्टं-धर्माधर्मौ । कार्यमात्रं प्रति अदृष्टमपि कारणं भवति । स्वस्वाद्दृष्टवशादेव कश्चिद्धनी, कश्चिद्रङ्को, बधिरो, मूकः, काणो वा भवतीति भावः ।

न्या.बो. कारणलक्षणव्याख्यानायाह-कारणं लक्षयतीति । कार्यं प्रति नियतत्वे पृ.२६.सति पूर्ववृत्तित्वमिति लक्षणम् । कार्यं प्रति नियतत्वञ्च कार्यसत्त्वे निश्चितसत्ता- कत्वम् । अर्थात् यत्र कार्यं भवेत् तत्र पूर्वमवश्यं विद्यमानतयाऽपेक्षितं स्यादिति यावत् । अयमाशयः - कस्यचिद्रासभस्योपरि मृत्तिकामानीय कुम्भकारो घटं रचितवान् तर्हि रासभः पूर्वं विद्यमानोऽपि घटं प्रति कारणं न भवति । यतो हि नहि घटोत्पत्तिपूर्व सर्वत्र रासभस्तिष्ठत्येव, अन्यथापि मृत्तिकानयनस्य संभवात् । तस्माद् घटं प्रति नियतत्वाभावाद् रासभः तं प्रति कारणं न भवतीति ।

ननु घटं प्रति नियतत्वे सति पूर्ववृत्तित्वं दण्डरूपेऽपि वर्तते ऽ तो दण्डवद् दण्डरूपमपि घटं प्रति कारणं स्यादत आह नियतपूर्ववर्तिन इति । अनन्यथा- सिद्धपदमपि - अन्यथासिद्धा ये सन्ति, तद्भिन्नत्वं लक्षणे विशेषणीयमित्यर्थः । तथा च अन्यथासिद्धिभिन्नत्वे सति कार्यनियतपूर्ववृत्तित्वं कारणत्वमिति निष्कर्षः । दण्डरूपादीनामन्यथासिद्धत्वान्न तत्र कारणलक्षणातिव्याप्तिरित्याह - दण्ड- रूपादीनामिति । अन्यथासिद्धभेदा ग्रन्थान्तरतोऽनुसन्धेयाः ।

कार्यलक्षणं व्याख्यातुमाह - कार्यं लक्षयतीति । लक्षणस्वरूपमाह - प्राग्भावेति । उपपादयति - कार्योत्पत्तेरिति । घटादिकार्योत्पत्तेः पूर्वमित्यर्थः । इह घटो भविष्यतीति प्रतीतिर्या जायते, तस्यां प्रतीतौ घटोत्पत्तिप्राक्कालिको घटाभावो विषयीभूतो विद्यते स एव प्रागभावनाम्ना व्यवह्रियते । यस्याभावः स प्रतियोगीति नियमात् उक्तघटप्रागभावप्रतियोगित्वस्य घटे सत्त्वाद् घटः कार्य- मुच्यते इति भावः ।

न्या.बो. मूलकारकृतं कारणलक्षणविभागं किञ्चिद्विशिष्यानुवदति - समवायी- पृ.२७.त्यादि । समवायिकारणलक्षणं व्याख्यातुमाह - समवायिकारणं लक्षयतीति । मूलोक्तलक्षणस्यार्थमाह - यस्मिन्निति । यस्मिन् समवेतं सदित्यस्यार्थः समवायेन सम्बद्धं सदिति । अयं भावः - अवयवावयविनोः परस्परं समवायः सम्बन्ध इति पूर्वमस्माभिरुक्तम् । कपालद्वयमवयवभूतं घटश्चावयवी । तथा चावयवीभूतो घटः अवयवभूतयोः कपालयोः समवायसम्बन्धेन सम्बद्धः सन् उत्पद्यतेऽतो घटं प्रति