तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 129, कुल 199 में से
संदर्भ में पढ़ें११२ तर्कसंग्रहे [ प्रत्यक्षपरिच्छेदः न्या.बो.पञ्चविधेति । कार्यकारणस्वरूपं प्रदर्शयति-तथाहीति । द्रव्यमधिकरणं यस्य पृ.३८.स द्रव्याधिकरणकोऽभावः, तत्प्रत्यक्षो-भूतलादिद्रव्यनिष्ठो यो घटाद्यभावस्तत्- प्रत्यक्षो इत्यर्थः । तत्र इन्द्रियसंयुक्तविशेषणता कारणम्, इन्द्रियसंयुक्ते भूतले घटा- भावस्य विशेषणत्वादिति भावः । द्वितीयं कार्यकारणभावमाह-द्रव्यसमवेतेति । द्रव्यसमवेतमधिकरणं यस्याभावस्य, स द्रव्यसमवेताधिकरणकः, तत्प्रत्यक्षो इत्यर्थः । द्रव्यं-- घटादिरूपं द्रव्यं, तत्र समवेतं घटत्वं, तत्र विद्यमानो यः पृथिवीत्वाभावः, तत्प्रत्यक्षो इति तात्पर्यम् । तत्र इन्द्रियसंयुक्तसमवेतविशेषणतासन्निकर्षः कारणम् । इन्द्रियसंयुक्तो यो घटस्तत्र समवेतं यद् घटत्वं, तत्र पृथिवीत्वाभावस्य विशेष- णत्वात् । तृतीयमाह-द्रव्यसमवेतसमवेतेति । द्रव्यं घटः, तत्समवेतं रूपं, तत्समवेतरूपत्वादौ वर्तमानो यो नीलत्वाद्यभावः, तत्प्रत्यक्षे इत्यर्थः । इन्द्रिय- संयुक्तो घटः, तत्समवेतं रूपं, तत्समवेतं रूपत्वं, तत्र नीलत्वाभावस्य विशेष- णत्वादिति भावः । स्वयमुदाहरति-घटे पटत्वाभाव इत्यादि । व्याख्या- तमेतत् । इति तर्कसंग्रहन्यायबोधिनीव्याख्यायां कलायां प्रत्यक्षपरिच्छेदः ।