तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 142, कुल 199 में से
संदर्भ में पढ़ेंसति सुतरां धूम आर्द्वेन्धनसंयोगव्याप्य इत्याह - धूमव्यापकत्वमिति । एवं यत्र यत्र वह्निरस्ति तत्र तत्रार्द्रेन्धनसंयोगो नास्ति यथा अयोगोलके, अत आर्द्वेन्धन- संयोगः साधनस्य वह्ने रध्यापको विद्यते । तथा च सुतरां वह्नौ आर्द्वेन्धनसंयोगा- व्याप्यत्वं सिद्धमित्याह - एवमिति । अव्याप्यत्वमेव व्यभिचारित्वमित्यांह- तदेवेति । यद्व्यभिचारित्वं यत्र तद्व्याप्यव्यभिचारित्वमपि तत्रेति नियमात्- आर्द्वेन्धनसंयोगरूपोपाधिव्यभिचारित्व वह्नावस्ति, ततस्तद्व्याप्यधूमव्यभिचारित्व- मपि वह्नावस्ति इत्याह-तथा चेति । अनुमानप्रकारमपि स्वयमेव दर्शयति - अनुमानेति । पूर्वानुमानहेतुं = वादिनोऽनुमाने यो हेतुस्तमित्यर्थः । अत्र सामान्यव्याप्ति प्रदर्शयति - यो यत्- न्या.बो साध्येति । उपाधेः फलमाह - एवं प्रकारेणेति । प्रकृतानुमानम् = पर्वतो पृ.५६. धूमवानित्यनुमानं, तत्र हेतुभूतो वह्निः । तस्मिन् पक्षे = वह्नि पक्षीकृत्येत्यर्थः । साध्यव्यभिचारोत्थापकतया = साध्यव्यभिचारानुमापकत्येत्यर्थः । व्याप्यत्वासिद्धि- न्या बो.रूपदोषज्ञानफलमाह - तथा चेति । साध्याभाववद्वृत्तित्व व्यभिचारः, साध्या- पृ.६०.भाववदवृत्तित्वं व्याप्तिरिति विवेकः । बाधितनामानं हेत्वाभासं व्याख्यातुं प्रतीकमुपादत्ते - यस्येतीति । अर्थः सुगमः । उदाहरणं मूलत एव ज्ञेयम् । एतद्धेत्वाभासज्ञानफलमाह - तथा चेति । अस्य हेत्वाभासस्य बाधित इति नामकरणे निमित्तमाह-बाधितसाध्यकत्वा- दिति । बाधितं साध्यं यस्य स बाधितसाध्यको हेतुः, तत्त्वादित्यर्थः । साध्यस्य बाधितत्वादिति यावत् । । इति तर्कसंग्रहन्यायबोधिनीव्याख्यायां कलायामनुमानपरिच्छेदः । ••••०८०••••