भारतकोश
तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi

अन्नम्भट्ट द्वारा

DevanagariHindipublished199 पृष्ठ

पृष्ठ 142, कुल 199 में से

संदर्भ में पढ़ें
पृष्ठ 142

सति सुतरां धूम आर्द्वेन्धनसंयोगव्याप्य इत्याह - धूमव्यापकत्वमिति । एवं यत्र यत्र वह्निरस्ति तत्र तत्रार्द्रेन्धनसंयोगो नास्ति यथा अयोगोलके, अत आर्द्वेन्धन- संयोगः साधनस्य वह्ने रध्यापको विद्यते । तथा च सुतरां वह्नौ आर्द्वेन्धनसंयोगा- व्याप्यत्वं सिद्धमित्याह - एवमिति । अव्याप्यत्वमेव व्यभिचारित्वमित्यांह- तदेवेति । यद्व्यभिचारित्वं यत्र तद्व्याप्यव्यभिचारित्वमपि तत्रेति नियमात्- आर्द्वेन्धनसंयोगरूपोपाधिव्यभिचारित्व वह्नावस्ति, ततस्तद्व्याप्यधूमव्यभिचारित्व- मपि वह्नावस्ति इत्याह-तथा चेति । अनुमानप्रकारमपि स्वयमेव दर्शयति - अनुमानेति । पूर्वानुमानहेतुं = वादिनोऽनुमाने यो हेतुस्तमित्यर्थः । अत्र सामान्यव्याप्ति प्रदर्शयति - यो यत्- न्या.बो साध्येति । उपाधेः फलमाह - एवं प्रकारेणेति । प्रकृतानुमानम् = पर्वतो पृ.५६. धूमवानित्यनुमानं, तत्र हेतुभूतो वह्निः । तस्मिन् पक्षे = वह्नि पक्षीकृत्येत्यर्थः । साध्यव्यभिचारोत्थापकतया = साध्यव्यभिचारानुमापकत्येत्यर्थः । व्याप्यत्वासिद्धि- न्या बो.रूपदोषज्ञानफलमाह - तथा चेति । साध्याभाववद्वृत्तित्व व्यभिचारः, साध्या- पृ.६०.भाववदवृत्तित्वं व्याप्तिरिति विवेकः । बाधितनामानं हेत्वाभासं व्याख्यातुं प्रतीकमुपादत्ते - यस्येतीति । अर्थः सुगमः । उदाहरणं मूलत एव ज्ञेयम् । एतद्धेत्वाभासज्ञानफलमाह - तथा चेति । अस्य हेत्वाभासस्य बाधित इति नामकरणे निमित्तमाह-बाधितसाध्यकत्वा- दिति । बाधितं साध्यं यस्य स बाधितसाध्यको हेतुः, तत्त्वादित्यर्थः । साध्यस्य बाधितत्वादिति यावत् । । इति तर्कसंग्रहन्यायबोधिनीव्याख्यायां कलायामनुमानपरिच्छेदः । ••••०८०••••