तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 176, कुल 199 में से
संदर्भ में पढ़ेंसहिन्दीपदकृत्यसहितः १५९ शब्दत्वसाक्षात्कारे कः सन्निकर्ष ?— शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः, श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात् । अभावप्रत्यक्षे कः सन्निकर्षः ?— अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः, घटाभाववद्- भूतलमित्यत्र चक्षुःसंयुक्ते भूतले घटाभावस्य विशेषणत्वात् । प्रत्यक्षप्रमाणस्य निष्कृष्टं लक्षणं किम् — एवं सन्निकर्षषट्कजन्यं ज्ञानं प्रत्यक्षं, तत्करणमिन्द्रियम् । तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम् । । इति प्रत्यक्षपरिच्छेदः । पदकृत्यम् समवायसन्निकर्षमुदाहरति—श्रोत्रेणेति । जननीय इति शेषः । ननु श्रोत्र- शब्दयोः कथं समवाय इत्यपेक्षमाणं प्रति तमुपपाद्य दर्शयति—कर्णेति । १अथ समवायस्य नित्यत्वेन शब्दप्रत्यक्षे को व्यापार इति चेत्, शब्दः श्रोत्र- मनःसंयोगो वेति गृहाण । शब्दत्वेति । श्रोत्रेण जननीये इत्यनुकर्षशेषः । विशेषणेति । २विशेषणभावो विशेष्यभावश्चेति बोध्यम् । इन्द्रियसम्बद्ध- विशेषणत्वमिन्द्रियसम्बद्धविशेष्यत्वमिति यावत् । विशेषणभावसन्निकर्षमुप- पाद्य दर्शयति—घटाभाववदिति । 'इह भूतले घटो नास्ती'त्यादौ विशेष्यता- सन्निकर्षोऽवसेयः, सप्तम्यन्तस्य विशेषणत्वात् । प्रत्यक्षप्रमाणमुपसंहरति—एवमिति । उपदर्शितक्रमेणेत्यर्थः । ननु सिद्धान्ते प्रत्यक्षज्ञानकरणमिन्द्रियार्थसन्निकर्षः किं न स्यादिति चेन्नेत्याह- तत्करणमिति । प्रत्यक्षप्रमाणं निगमयति—तस्मादिति । प्रत्यक्षप्रमाकरण- त्वादित्यर्थः । सिद्धमिति । न्यायसिद्धान्ते सिद्धमित्यर्थः । । इति पदकृत्यके प्रत्यक्षपरिच्छेदः । हिन्दी १. समवायसन्निकर्षके नित्य होनेसे कदाचित् होनेवाले शब्दप्रत्यक्षमें क्या व्यापार है ? तो इसका उत्तर देते हैं कि—शब्दप्रत्यक्षमें शब्द ही व्यापार है, अथवा श्रोत्रमनका संयोग व्यापार है । २. अभावप्रत्यक्षमें विशेषणता और विशेष्यता दोनों ही सन्निकर्ष हैं। अर्थात् इन्द्रियसम्बद्धविशेषणता और इन्द्रियसम्बद्धविशेष्यता सन्निकर्ष हैं। प्रथमका उदा- हरण—“घटाभाववद्भूतलम्” प्रत्यक्ष है और दूसरेका उदाहरण “इह भूतले घटो नास्ति” यह प्रत्यक्ष है ।। । इति श्रीकेदारनाथत्रिपाठिकृतायां तर्कसंग्रहपदकृत्यहिन्दीटिप्पण्यां प्रत्यक्षपरिच्छेदः ।