तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 180, कुल 199 में से
संदर्भ में पढ़ेंसहिन्दीपदकृत्यसहितः १६३ स्वार्थानुमितिपरार्थानुमित्योः किं करणम् ?— स्वार्थानुमितिपरार्थानुमित्योर्लिङ्गपरामर्श एव करण म् । तस्मा- ल्लिङ्गपरामर्शोऽनुमानम् । लिङ्गं कतिविधं किञ्चान्वयव्यतिरेकिलक्षणम् ?— लिङ्गं त्रिविधम्–अन्वयव्यतिरेकि, केवलान्वयि, केवलव्यतिरेकि चेति । अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि, यथा-वह्नौ साध्ये धूमवत्त्वम् । यत्र धूमस्तत्राग्निर्यथा महानसमित्यन्वयव्याप्तिः । यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा ह्रद इति व्यतिरेक- व्याप्तिः । पदकृत्यम् लिङ्गेति । १ज्ञायमानं लिङ्गमनुमितिकरणमिति वृद्धोक्तं न युक्तम्, इयं यज्ञशाला वह्निमती अतीतधूमादित्यादौ लिङ्गाभावेऽप्यनुमितिदर्शनादित्य- भिप्रायाल्लिङ्गपरामर्श एव करणमित्याचष्टे-लिङ्गपरामर्श एवेति । अनु- मानमुपसंहरति-तस्मादिति । अनुमितिकरणत्वादित्यर्थः । अयमेव तृतीयज्ञान- मित्युच्यते । तथाहि--महानसादौ धूमाग्न्योर्व्याप्तौ गृह्यमाणायां यद्धूमज्ञानं तदादिमम् । पक्षे यद्धूमज्ञानं तद्द्वितीयम् । अत्रैव वह्निव्याप्यत्वेन यद्धूम- ज्ञानं तत्तृतीयम् । इदमेव लिङ्गपरामर्श इत्युच्यते । अनुमानमिति । व्यापार- वत्कारणं करणमिति मते व्याप्तिज्ञानमेवानुमानं लिङ्गपरामर्शो व्यापार इत्यवसेयम् । अन्वयव्यतिरेकिणो लक्षणमाह--अन्वयेति । तृतीयायाः प्रयोज्यत्वमर्थः । साध्यसाधनयो साहचर्यमन्वयः । २तदभावयोः साहचर्यं व्यतिरेकः । तथा चान्वयप्रयोज्यव्याप्तिमद्व्यतिरेकप्रयोज्यव्याप्तिमदन्वयव्यतिरेकीत्यर्थः । केवलव्यतिरेकिण्यतिव्याप्तिवारणाय अन्वयेनेति । केवलान्वयिनि व्यभिचार- हिन्दी १. प्राचीनमतानुसार ज्ञायमानलिङ्ग अनुमितिका करण है । किन्तु नवीनोंको यह मान्य नहीं है, क्योंकि "इयं यज्ञशाला वह्निमती अतीतधूमात्" वहाँ पर धूमलिङ्गके वर्तमान न होनेपर भी अनुमिति होती है । अतः लिङ्गपरामर्श ही अनुमितिका करण है । प्रकृत अनुमितिमें धूम न होने पर भी उसका ज्ञान तो है ही ।