तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 182, कुल 199 में से
संदर्भ में पढ़ेंसान्दपदकृत्यसहितः १६५ केवलव्यतिरेकिणः किं लक्षणम् ?— व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि । यथा-पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात्, यदितेरेभ्यो न भिद्यते न तद्गन्धवत् यथा जलम्, न चेयं तथा, तस्मान्न तथेति । अत्र यद्गन्धवत् तदितरभिन्न- मित्यन्वयदृष्टान्तो नास्ति, पृथिवीमात्रस्य पक्षत्वात् । पक्षस्य किं लक्षणम् ?— सन्दिग्धसाध्यवान् पक्षः । यथा-धूमवत्त्वे हेतौ पर्वतः । पदकृत्यम् केवलव्यतिरेकिणो लक्षणमाह-व्यतिरेकेति । व्यतिरेकेणैव व्याप्तिर्य- स्मिंस्तत्तथा । अन्वयव्यतिरेकिण्यतिव्याप्तिवारणाय मात्रेति । न चेयं तथेति । इयं पृथिवी, न तथा-न गन्धाभाववतीत्यर्थः । तस्मान्न तथेति । गन्धाभाव- वत्त्वाभावादितरभेदाभाववती नेत्यर्थः । नन्वत्र किमिति नान्वयव्याप्ति- रीत्याशङ्क्य परिहरति-अत्रेति । इतरभेदसाधकानुमान इत्यर्थः । इदमुपल- क्षणम् । जीवच्छरीरं सात्मकं, प्राणादिमत्त्वात्, यन्नैवं तन्नैवं यथा घटः । प्रत्य- क्षादिकं प्रमाणमिति व्यवहर्तव्यं, प्रमाकरणत्वात्, यन्नैवं तन्नैवं यथा प्रत्यक्षा- भासः । विवादास्पदम् आकाशमिति व्यवहर्तव्यं, शब्दवत्त्वादित्यादिकमपि केवलव्यतिरेकि द्रष्टव्यम् । अत्रेदं बोध्यम् — १अन्वयव्यतिरेकि तु पञ्चरूपोपपन्नं स्वसाध्यं साधयितुं क्षमते, तानि कानि ! इति चेच्छ्रूयताम्-पक्षधर्मत्वं सपक्षसत्त्वम् विपक्षाद्व्या- वृत्तिरबाधितविषयत्वमसत्प्रतिपक्षत्वं चेति । अबाधितः साध्यरूपो विषयो यस्य तत्तथोक्तम्, तस्य भावस्तत्त्वम् । एवं साध्याभावसाधकं हेत्वन्तरं यस्य, स सत्प्रतिपक्ष इत्युच्यते स नास्ति यस्य सोऽसत्प्रतिपक्षः, तस्य भावस्तत्त्व- मिति बोध्यम् । केवलान्वयि तु चतूरूपोपपन्नमेव स्वसाध्यं साधयितुं क्षमते, तस्य विपक्षविपर्ययेण तद्व्यावृत्तिविपर्ययात् । केवलव्यतिरेक्यपि तथा तस्य सपक्षविपर्ययेण तत्सत्त्वविपर्ययादिति, उपदर्शितरूपाणां मध्ये कतिपयरूपो- पपन्नत्वात् । अथ पृथिवीमात्रस्य पक्षत्वादित्यत्र किं नाम पक्षतेत्यपेक्षायां तां निर्वक्ति - सन्दिग्धेति । सपक्षवारणाय सन्दिग्धेति । हिन्दी १. अन्वयव्यतिरेकी हेतु पक्षसत्त्व, सपक्षसत्त्व, विपक्षव्यावृत्तत्व, अबाधितविषयत्व और असत्प्रतिपक्षत्वरूप पञ्चरूप से युक्त होकर साध्यकी सिद्धि करता है। केवलान्वयी हेतु तो चाररूपोंसे ही युक्त होकर अपने साध्यकी सिद्धि करता है। क्योंकि विपक्ष नही होनेसे विपक्षव्यावृत्तत्व नहीं मिल सकेगा। एवं केवलव्यतिरेकी हेतु भी चाररूपोंसे