तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 197, कुल 199 में से
संदर्भ में पढ़ें१८० तर्कसंग्रहः [ अवशिष्टपरिच्छेदः अथ कर्मादिलक्षणप्रकरणम्— कर्मणः किं लक्षणम् ?— चलनात्मकं कर्म । ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम् । अधोदे- शसंयोगहेतुरपक्षेपणम् । शरीरस्य सन्निकृष्टसंयोगहेतुराकुञ्चनम् । विप्रकृष्टसंयोगहेतुः प्रसारणम् । अन्यत्सर्वं गमनम् । सामान्यस्य किं लक्षणम् ?— नित्यमेकमनेकानुगतं सामान्यम् । द्रव्यगुणकर्मवृत्ति । परं सत्ता, अपरं द्रव्यत्वादि । विशेषाणां किं लक्षणम् ?— नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः । पदकृत्यम् चलनेति । संयोगभिन्नत्वे सति संयोगासमवायिकारणं कर्म । १हस्त- पुस्तकसंयोगवारणाय सत्यन्तम् । घटादिवारणाय विशेष्यदलम् । ऊर्ध्वेति । अपक्षेपणवारणाय ऊर्ध्वेति । कालादिवारणाय असाधारणेत्यपि बोध्यम् । अधोदेशेति । उत्क्षेपणवारणाय अधोदेशेति । कालादिवारणाय असाधारणे- त्यपि देयम् । शरीरेति । प्रसारणादिवारणाय सन्निकृष्टेति । कालादि- वारणाय असाधारणपदमप्यावश्यकम् । नित्यमिति । संयोगादिवारणाय नित्यमिति । कालादिपरिमाणवारणाय अनेकेति । अनेकानुगतत्वम् च समवायेन बोध्यम्, तेन नात्यन्ताभावेऽति- व्याप्तिः । नित्यद्रव्यवृत्तय इति । घटत्वादिवारणाय नित्यद्रव्यवृत्तय इति । २आत्मत्वमनस्त्ववारणाय आत्मत्वमनस्त्वभिन्ना इत्यपि बोध्यम् । हिन्दी अन्यतरत्वमें नहीं जायगा । कारण, संस्कारत्वसे शून्य रूपमें रहनेवाला अन्यतरत्वधर्म अतिरिक्तवृत्ति होनेसे व्याप्य नही बन सकेगा तथा इसे लेकर अतिव्याप्ति देना असंगत हो जायगा । १. हस्तपुस्तकसंयोग भी शरीरपुस्तकसंयोगके प्रति असमवायिकारण है । इसमें कर्मलक्षण न जाय, इसके लिये 'संयोगभिन्नत्वे सति' विशेषण दिया । २. आत्मत्व-मनस्त्व भी नित्यद्रव्यवृत्ति है, अतः इनमें विशेषका लक्षण न जाय, इसलिये "आत्मत्व-मनस्त्वभिन्नाः" यह भी विशेषके लक्षणमें जोड़ देना चाहिये ।