उपदेशसाहस्री (आदि शङ्कराचार्य - गद्य व पद्य भाग)
Upadesha Sahasri of Adi Shankaracharya
आदि शङ्कराचार्य द्वारा
स्रोत: रामकृष्ण मठ · रामकृष्ण मठ (उद्गम)
पृष्ठ 23, कुल 336 में से
संदर्भ में पढ़ें8 A THOUSAND TEACHINGS आचार्यो ब्रूयात्—इहैव तव सोम्य मृतस्य शरीरं वयोभि- र्भक्ष्यते मृद्भावं वापद्यते, तत्र कथं संसारादुद्धर्तुमिच्छसीति । नहि नद्याः अवरे कूले भस्मीभूते नद्याः पारं तरिष्यसीति ॥ ११ ॥ 10, 11. If he says, “ I am the son of a Brâhmaṇa belonging to such and such a lineage, I was a student or a householder, and am now a wandering monk anxious to cross the ocean of transmigratory existence infested with the terrible sharks of birth and death,” the teacher should say, “ My child, how do you desire to go beyond transmigratory existence as your body will be eaten up by birds or will turn into earth even here when you die ? For, burnt to ashes on this side of the river, you cannot cross to the other side.” स यदि ब्रूयात्—अन्योऽहं शरीरात् । शरीरं तु जायते म्रियते, वयोभिर्भक्ष्यते, शस्त्राग्न्यादिभिश्च विनाश्यते, व्याध्यादि- भिश्च प्रयुज्यते । तस्मिन् अहं स्वकृतधर्माधर्मवशात् पक्षी नीड- मिव प्रविष्टः पुनःपुनः शरीरविनाशे धर्माधर्मवशात् शरीरान्तरं यास्यामि, पूर्वनिीडविनाशे पक्षीव नीडान्तरम् । एवमेवाहमनादौ संसारे देवमनुष्यतिर्यङ्निरयस्थानेषु स्वकर्मवशादुपात्तमुपात्तं शरीरं त्यजन्, नवं नवं च अन्यदुपाददानो, जन्ममरणप्रबन्धचक्रे घटीयन्त्रवत् स्वकर्मणा भ्राम्यमाणः क्रमेणेदं शरीरमासाद्य संसारचक्रभ्रमणात् अस्मान्निर्विण्णो भगवन्तमुपसन्नोऽस्मि संसा- रचक्रभ्रमणप्रशमाय । तस्मान्नित्य एवाहं शरीरादन्यः । शरीराणि आगच्छन्त्यपगच्छन्ति च वासांसीव पुरुषस्येति ॥ १२ ॥ आचार्यो ब्रूयात्—साध्ववादीः, सम्यक्पश्यसि । कथं मृषा- ऽवादीः, ब्राह्मणपुत्रोऽदोन्वयो ब्रह्मचार्यासम्, गृहस्थो वा, इदा- नीमस्मि परमहंसपरिव्राडिति ॥ १३ ॥