भारतकोश
उपदेशसाहस्री (आदि शङ्कराचार्य - गद्य व पद्य भाग)

उपदेशसाहस्री (आदि शङ्कराचार्य - गद्य व पद्य भाग)

Upadesha Sahasri of Adi Shankaracharya

आदि शङ्कराचार्य द्वारा

स्रोत: रामकृष्ण मठ · रामकृष्ण मठ (उद्गम)

DevanagariSanskritpublished336 पृष्ठ

पृष्ठ 71, कुल 336 में से

संदर्भ में पढ़ें
पृष्ठ 71

56 A THOUSAND TEACHINGS self-existent. As Pure Consciousness, the Self, is self- existent no one can disprove Its independence of other things inasmuch as It never ceases to exist." ननु व्यभिचारो दर्शितो मया, सुषुप्ते न पश्यामीति ॥ ९२ ॥ 92. Disciple.—" But I have shown ¹ an exception,² namely, I have no consciousness in deep sleep." न । व्याहतत्वात् । कथं व्याघातः ? पश्यतस्तव न पश्यामि इति व्याहतं वचनम् । नहि कदाचित् भगवन्, सुषुप्ते मया चैतन्यं अन्यद्वा किंचित् दृष्टम् । पश्यन् तर्हि सुषुप्ते त्वम् । यस्मात् दृष्टमेव प्रतिषेधसि, न दृष्टिम् । या तव दृष्टिः तत् चैत- न्यमिति मयोक्तम् । यया त्वं विद्यमानया न किंचित् दृष्टमिति प्रतिषेधसि, सा दृष्टिः त्वच्चैतन्यम् । तर्हि सर्वत्र अव्यभिचारात् कूटस्थनित्यत्वं सिद्धं स्वत एव, न प्रमाणापेक्षम् । स्वतःसिद्धस्य हि प्रमातुः अन्यस्य प्रमेयस्य परिच्छित्तिं प्रति प्रमाणापेक्षा । या तु अन्या नित्या परिच्छित्तिः अपेक्ष्यते, अन्यस्य अपरि- च्छित्तिरूपस्य परिच्छेदाय, सा हि नित्यैव कूटस्था स्वयं- ज्योतिःस्वभावा । आत्मनि प्रमाणत्वे प्रमातृत्वे वा न तां प्रति प्रमाणापेक्षा, तत्स्वभावत्वात् । यथा प्रकाशनं उष्णत्वं वा लोहोदकादिषु परतः अपेक्ष्यते अग्न्यादित्यादिभ्यः, अतत्स्व- भावत्वात्, न अग्न्यादित्यादीनां तदपेक्षा, सर्वदा तत्स्वभाव- त्वात् ॥ ९३ ॥ 93. Teacher.—" No, you contradict yourself." Disciple—" How is it a contradiction ? " ¹ See para 90 above. ² To the persistence of Pure Consciousness .