उपदेशसाहस्री (आदि शङ्कराचार्य - गद्य व पद्य भाग)
Upadesha Sahasri of Adi Shankaracharya
आदि शङ्कराचार्य द्वारा
स्रोत: रामकृष्ण मठ · रामकृष्ण मठ (उद्गम)
पृष्ठ 83, कुल 336 में से
संदर्भ में पढ़ें68 A THOUSAND TEACHINGS यद्येवं भगवन्, कूटस्थनित्यावगतिः आत्मज्योतिःस्वरूपैव स्वयंसिद्धा, आत्मनि प्रमाणनिरपेक्षत्वात्, ततोऽन्यत् अचेतनं संहत्यकारित्वात् परार्थम् । येन च सुखदुःखमोहप्रत्ययावगतिरूपेण पारार्थ्यं, तेनैव स्वरूपेण अनात्मनः अस्तित्त्वं, नान्येन रूपा- न्तरेण, अतो नास्तित्वमेव परमार्थतः । यथा हि लोके रज्जुसर्प- मरीच्युदकादीनां तदवगतिव्यतिरेकेण अभावो दृष्टः, एवं जाग्र- त्स्वप्नद्वैतभावस्यापि तदवगतिव्यतिरेकेण अभावो युक्तः । एवमेव परमार्थतः भगवन्, अवगतेः आत्मज्योतिषः नैरन्तर्यभावात् कूट- स्थनित्यता, अद्वैतभावश्च सर्वप्रत्ययभेदेषु अव्यभिचारात् । प्रत्ययभेदास्तु अवगतिं व्यभिचरन्ति । यथा स्वप्ने नीलपीताद्या- कारभेदरूपाः प्रत्ययाः तदवगतिं व्यभिचरन्तः परमार्थतो न सन्तीत्युच्यन्ते, एवं जाग्रत्यपि नीलपीतादिप्रत्ययभेदाः तामेवाव- गतिं व्यभिचरन्तः असत्यरूपा भवितुमर्हन्ति । तस्याश्चावगतेः अन्यः अवगन्ता नास्तीति न स्वेन स्वरूपेण स्वयं उपादातुं हातुं वा शक्यते, अन्यस्य च अभावात् ॥ १०९ ॥ 109. Disciple.—“Sir, if this is so, independent of evidences regarding Itself eternal and changeless Know- ledge, the Consciousness of the Self, is surely self- evident, and, all things, different from It and there- fore non-conscious, have an existence only for the sake of the Self as they combine to act for one another (in order that the events of the universe may continue uninterruptedly). It is only as the Knowledge ¹ of the ¹ The substratum of the mental modifications by which they are known (illumined).