भारतकोश
उपदेशसाहस्री (आदि शङ्कराचार्य - गद्य व पद्य भाग)

उपदेशसाहस्री (आदि शङ्कराचार्य - गद्य व पद्य भाग)

Upadesha Sahasri of Adi Shankaracharya

आदि शङ्कराचार्य द्वारा

स्रोत: रामकृष्ण मठ · रामकृष्ण मठ (उद्गम)

DevanagariSanskritpublished336 पृष्ठ

पृष्ठ 88, कुल 336 में से

संदर्भ में पढ़ें
पृष्ठ 88

REITERATION AND REFLECTION 73 शादिभिर्वचनैः, मां दृक्स्वभावं असंसर्गिणं अविक्रियं अचलं अनिधनं अभयं अत्यन्तसूक्ष्मं अविषयं गोचरीकृत्य स्प्रष्टुं नैवा- र्हति असंसर्गित्वादेव माम् । अत एव न शब्दनिमित्ता हानिः वृद्धिर्वा । अतो मां किं करिष्यति स्तुतिनिन्दादिप्रियाप्रियत्वा- दिलक्षणः शब्दः । अविवेकिनं हि शब्दं आत्मत्वेन गतं प्रियः शब्दो वर्धयेत्, अप्रियश्च क्षपयेत्, अविवेकित्वात् । नतु मम विवेकिनो वालाग्रमात्रमपि कर्तुमुत्सह्त इति । एवमेव स्पर्शसा- मान्येन, तद्विशेषैश्च शीतोष्णमृदुकर्कशादिज्वरोदरशूलादिल- क्षणैश्च अप्रियैः, प्रियैश्च कैश्चित् शरीरसमवायिभिः बाह्यागन्तु- कनिमित्तैश्च, न मम काचित् विक्रिया वृद्धिहानिलक्षणा अस्प- र्शत्वात् क्रियते, व्योम्न इव मुष्टिघातादिभिः । तथा रूपसामा- न्येन, तद्विशेषैश्च प्रियाप्रियैः स्त्रीव्यञ्जनादिलक्षणैः, अरूपत्वात् न मम काचित् हानिः वृद्धिर्वा क्रियते । तथा रससामान्येन, तद्विशेषैश्च प्रियाप्रियैः मधुराम्ललवणकटुतिक्तकषायैः मूढबुद्धिभिः परिगृहीतैः, अरसात्मकस्य मम न काचित् हानिः वृद्धिर्वा क्रियते । तथा गन्धसामान्येन, तद्विशेषैः प्रियाप्रियैः पुष्पाद्यनु- लेपनादिलक्षणैः, अगन्धात्मकस्य न मम काचित् हानिः वृद्धिर्वा क्रियते । 'अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्' इति श्रुतेः ॥ ११५ ॥ 114, 115. Distressed by sound and other things experienced, the knower of Brahman will thus practise repetition : "I who am of the nature of Consciousness, not attached to anything, changeless, immovable, imperish- able, free from fear, extremely subtle and not an object,