उपदेशसाहस्री (आदि शङ्कराचार्य - गद्य व पद्य भाग)
Upadesha Sahasri of Adi Shankaracharya
आदि शङ्कराचार्य द्वारा
स्रोत: रामकृष्ण मठ · रामकृष्ण मठ (उद्गम)
पृष्ठ 88, कुल 336 में से
संदर्भ में पढ़ेंREITERATION AND REFLECTION 73 शादिभिर्वचनैः, मां दृक्स्वभावं असंसर्गिणं अविक्रियं अचलं अनिधनं अभयं अत्यन्तसूक्ष्मं अविषयं गोचरीकृत्य स्प्रष्टुं नैवा- र्हति असंसर्गित्वादेव माम् । अत एव न शब्दनिमित्ता हानिः वृद्धिर्वा । अतो मां किं करिष्यति स्तुतिनिन्दादिप्रियाप्रियत्वा- दिलक्षणः शब्दः । अविवेकिनं हि शब्दं आत्मत्वेन गतं प्रियः शब्दो वर्धयेत्, अप्रियश्च क्षपयेत्, अविवेकित्वात् । नतु मम विवेकिनो वालाग्रमात्रमपि कर्तुमुत्सह्त इति । एवमेव स्पर्शसा- मान्येन, तद्विशेषैश्च शीतोष्णमृदुकर्कशादिज्वरोदरशूलादिल- क्षणैश्च अप्रियैः, प्रियैश्च कैश्चित् शरीरसमवायिभिः बाह्यागन्तु- कनिमित्तैश्च, न मम काचित् विक्रिया वृद्धिहानिलक्षणा अस्प- र्शत्वात् क्रियते, व्योम्न इव मुष्टिघातादिभिः । तथा रूपसामा- न्येन, तद्विशेषैश्च प्रियाप्रियैः स्त्रीव्यञ्जनादिलक्षणैः, अरूपत्वात् न मम काचित् हानिः वृद्धिर्वा क्रियते । तथा रससामान्येन, तद्विशेषैश्च प्रियाप्रियैः मधुराम्ललवणकटुतिक्तकषायैः मूढबुद्धिभिः परिगृहीतैः, अरसात्मकस्य मम न काचित् हानिः वृद्धिर्वा क्रियते । तथा गन्धसामान्येन, तद्विशेषैः प्रियाप्रियैः पुष्पाद्यनु- लेपनादिलक्षणैः, अगन्धात्मकस्य न मम काचित् हानिः वृद्धिर्वा क्रियते । 'अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्' इति श्रुतेः ॥ ११५ ॥ 114, 115. Distressed by sound and other things experienced, the knower of Brahman will thus practise repetition : "I who am of the nature of Consciousness, not attached to anything, changeless, immovable, imperish- able, free from fear, extremely subtle and not an object,