उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
पृष्ठ 11, कुल 86 में से
संदर्भ में पढ़ें२ उत्तरगीतायां तत्क्षणादेव मुच्येत यज्ज्ञानाद्ब्रूहि केशव । हे केशव यज्ज्ञानात् यस्य ब्रह्मणः सम्यग्ज्ञानात् तत्क्ष- णादेव ज्ञानोत्तरक्षणादेव मुच्येत अविद्यानिवृत्तिद्वारा आन- न्दावाप्तिर्भवेत्, तत् ब्रह्म ब्रूहि स्वरूपतटस्थलक्षणाभ्यां प्रतिपादय इत्यर्थः । एतदेव लक्षणैर्दर्शयति—यदित्यादिना । एकं सजातीयविजातीयस्वगतभेदरहितम्, निष्कलम् अवय- वरहितम्, व्योमातीतम्, आकाशादिचतुर्विंशतितत्त्वाती- तम्, निरञ्जनं स्वयंप्रकाशम्, अप्रतर्क्यम्, अमनोगोचरम्— ‘यन्मनसा न मनुते’ इति श्रुतेः, अविज्ञेयम् प्रमाणाविषयम् — ‘यद्वाचानिरुक्तम्’ ‘यतो वाचो निवर्तन्ते’ इति श्रुतेः, विनाशोत्पत्तिवर्जितं त्रैकालिकरूपम्, कारणम् सर्वोत्पत्ति- निमित्तोपादानरूपम्, योगनिर्मुक्तं वस्त्वन्तरसंबन्धरहितम्, हेतुसाधनवर्जितं निमित्तत्वोपादनत्वधर्मादिवर्जितम् इत्यर्थः, स्वस्य सनातनत्वेन ताभ्यामेव वर्जितमिति वा, हृद्याम्बुज- मध्यस्थं सर्वलोकान्तर्नियामकतया सर्वलोकहृदयकमलमध्य- स्थम्, ज्ञानज्ञेयस्वरूपकं ज्ञानं स्वविषयप्रकाशः ज्ञेयं विषयः तदुभयस्वरूपं तदुभयसत्तात्मकम्, यत् ब्रह्म, तत् कीदृश- मिति प्रश्नार्थः ॥ एवमर्जुनेन पृष्टो भगवान् प्रश्नार्थमभिनन्दन् उत्तरमाह—