उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
पृष्ठ 18, कुल 86 में से
संदर्भ में पढ़ेंप्रथमोऽध्यायः । ९ भिन्नसत्तात्मकमिति भावयेदित्यर्थः । आत्ममध्ये च पर- मात्मनि खं कुरु आकाशं कुरु तदुपादानकं भावयेत् । आत्मानं परमात्मानं खमयम् आकाशात्मकं कृत्वा किंचि- दपि ब्रह्मव्यतिरिक्तमन्यदपि न चिन्तयेत् न ध्यायेदित्यर्थः । यद्वा, ख-शब्देन जीवोऽभिधीयते, 'आकाशशरीरं ब्रह्म' इत्यादिश्रुतेः । आत्मशब्देन परमात्मा अभिधीयते । तयोरैक्यं बुद्ध्वा न किंचिदपि चिन्तयेदिति ॥ एवमुक्तप्रकारेण योगी भूत्वा ब्रह्मज्ञाननिष्ठ एव स्यात् इत्याह— स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः । बहिर्व्योमस्थितं नित्यं नासाग्रे च व्यवस्थितम् । निष्कलं तं विजानीयाच्छ्वासो यत्र लयं गतः ॥ ब्रह्मवित् उक्तप्रकारेण ब्रह्मज्ञानी सन् स्थिरबुद्धिः निश्च- लज्ञानी भूत्वा असंमूढः अज्ञानरहितः सन् ब्रह्मणि स्थितः ब्रह्मनिष्ठ एव नित्यं यत्र श्वासः श्वासवायुः लयं गतः नाशं प्राप्तः, तत्र नासाग्रे व्यवस्थितं बहिर्व्योमस्थितं बहिराकाश- स्थितं च निष्कलं कलातीतं तं ब्रह्म विजानीयात् बुध्येत् ॥ ब्रह्मज्ञाननिष्ठस्य मनोनैश्चल्यार्थं धारणाविशेषमाह—