उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
पृष्ठ 29, कुल 86 में से
संदर्भ में पढ़ें२० उत्तरगीतायां पायद्वारा दधिपरिणामे मथनेनापनीते नवनीतादिपरिणाम- द्वारा अग्निसंयोगात् यथा घृतं प्रतीयते, तथा पुष्पाणां मध्ये यथा गन्धः प्रतीयते, फलमध्ये त्वगस्थ्यादिहेयांशपरित्या- गेन यथा रसो भासते, आकाशे यथा वायुः सर्वगतः सन् वाति संचरति, तथा काष्ठाग्निवत् अरण्यादिस्थिताग्निः मथनादिना मथिते यथा काष्ठभावं विहाय स्वयंप्रकाशतया भासते, तद्वदात्मापि अन्नमयादिपञ्चकोशेषु मध्ये हेयां- शपरित्यागेन आनन्दात्मकतया स्वयंप्रकाशः सन् भासत इत्यर्थः ॥ एतदेव दार्ष्टान्तिके सर्वं स्पष्टमुपपादयति — तथा सर्वगतो देही देहमध्ये व्यवस्थितः । मनस्थो देहिनां देवो मनोमध्ये व्यवस्थितः ॥ ३१ ॥ तथा पूर्वोक्ततैलादिवत् सर्वगतः सर्वव्यापी देही जीवः दे - हमध्ये नानाभिन्नतिर्यग्देहादिदेहमध्ये व्यवस्थितः नानाभिन्न - तिलेषु तैलवत् एकत्वेन स्थित इत्यर्थः । देहिनां तत्तद्देहभेदेन भिन्नानां जीवानां मनस्थः तत्तदन्तःकरणस्थः देवः ईश्वरः