उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
पृष्ठ 31, कुल 86 में से
संदर्भ में पढ़ें१२ उत्तरगीतायां आकाशवन्मानसं मनो निर्मलं कृत्वा मनः संकल्पविक- ल्पात्मकं निरास्पदम् निर्विषयं कृत्वा निश्चलं निष्क्रियमी- श्वरं यो विजानीयात्, स एव समाधिस्थः । तादृशज्ञानमेव समाधिस्थस्यापि लक्षणमित्यर्थः ॥ आरूढस्य लक्षणमुक्तम् ; आरुरुक्षोरुपायमाह— योगामृतरसं पीत्वा वायुभक्षः सदा सुखी । यममभ्यस्यते नित्यं समाधिर्मृत्युनाशकृत् ॥ ३४ ॥ योगामृतरसं पीत्वा यमनियमाद्यष्टाङ्गयोगामृतपानं कृ- त्वा तत्प्रतिपादकशास्त्रमभ्यस्येत्यर्थः, वायुभक्षः वायुमात्रा- हारः, उपलक्षणमेतत् , हितमितमेध्याशी, सदा सुखी सर्वदा संतुष्टः सन् , यं यमं मनोनिग्रहं नित्यमभ्यस्यते, स समा- धिरित्युच्यते । स समाधिः मृत्युनाशकृत् जननमरणसं- सारनाशकृदित्यर्थः ॥ तादृशसमाधौ स्थितस्य लक्षणमाह— ऊर्ध्वशून्यमधःशून्यं मध्यशून्यं यदात्मकम् । ६५: ईश्वर