उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
पृष्ठ 33, कुल 86 में से
संदर्भ में पढ़ें२४ उत्तरगीतायां अवर्णमस्वरं ब्रह्म कथं ध्यायन्ति योगिनः । अदृश्ये ज्ञानागोचरे वस्तुनि भावना ध्यानं नास्ति ; ननु तर्हि दृश्यं भवत्विति चेत्, दृश्यमेतत्सर्वं विनश्यति नाशं प्राप्नोति शुक्तिकारूप्यवत् । तथा च अवर्णं रूपरहितम् अस्वरं शब्दागोचरं ब्रह्म योगिनः कथं ध्यायन्ति, ध्यानस्य स्मृत्यात्मकत्वेनाननुभूते तदयोगात् इति भावः ॥ न हि सावयवमूर्त्यादिमत्त्वेन वयं ध्यानं ब्रूमः येन त्वयो- क्तं घटेत, किं तु निर्विशेषपरब्रह्मण एव निर्मलं निष्कलमित्या- दिना, वेदान्तजन्यवृत्तिगोचरत्वेन तत्संभवतीत्यभिप्रायेणाह- श्रीभगवानुवाच- ऊर्ध्वपूर्णमधःपूर्णं मध्यपूर्णं यदात्मकम् ॥ ३७ ॥ सर्वपूर्णं स आत्मेति समाधिस्थस्य लक्षणम् । ऊर्ध्वाधोमध्यपूर्णशब्दैः सर्वदेशतः सर्वकालतः परिच्छेदं व्यावर्तयति । यदात्मकं यत् एतादृशं वस्तु सर्वत्र परिपूर्णं च