उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
पृष्ठ 42, कुल 86 में से
संदर्भ में पढ़ेंप्रथमोऽध्यायः । ३३ सति देवः ईश्वरः कथं निरञ्जनः अन्यप्रकाशनिरपेक्षः कथ- मित्यर्थः । निःसङ्गो वा कथमिति प्रश्नार्थः ॥ आकाशादिसर्वप्रपञ्चस्य कल्पितत्वेन सर्वं छेत्स्यतीत्यभि- प्रायेणाह— श्रीभगवानुवाच— आकाशो ह्यवकाशश्च आकाशव्यापितं च यत् । आकाशस्य गुणः शब्दो निःशब्दो ब्रह्म उच्यते ॥ ५० ॥ आकाशः महाकाशः अवकाशः परिच्छिन्नाकाशः उभ- यमप्याकाशेन आकाशतन्मात्रभूतेन शब्देन व्यापितं व्याप्तं तदुपादानकतया तदतिरिक्तं न भवतीत्यर्थः । तर्हि उपादा- नस्य शब्दस्य अतिरिक्तत्वमस्त्वित्यत आह— आकाशस्य गुणः शब्द इति, शब्दः तन्मात्रभूतः आकाशस्य मिथ्याभू- ताकाशस्य गुणः परिणाम्युपादानं यतः, अत एव स्वयमपि मिथ्याभूत इत्यर्थः । ब्रह्म तु निःशब्दः निष्प्रपञ्चः इत्युच्यते । तथा च सत्यस्याक्षरस्य ब्रह्मणः असत्येन सह संबन्धासंभ- वात् निरञ्जनत्वमुपपद्यत इत्यर्थः ॥