उत्तर गीता (आदि गौड़पादाचार्य दीपिका एवं सान्वय हिन्दी टीका)
Uttara Gita with Gaudapadacharya Dipika and Hindi Commentary
आदि गौड़पादाचार्य / महर्षि वेदव्यास द्वारा
पृष्ठ 45, कुल 86 में से
संदर्भ में पढ़ें३६ उत्तरगीतायां इन्द्रियाणां निरोधेन कथं सिध्यन्ति योगिनः ॥ ५३ ॥ सर्वभूताधिवासितं सर्वभूतेष्वप्यन्तर्यामितया स्थितं सर्व- गतम् अन्तर्बहिश्च परिपूर्णम्, ब्रह्म ज्ञात्वा सम्यग्विबुध्य योगिनः इन्द्रियाणां निरोधेन इन्द्रियनियमनेन कथं सि- ध्यन्ति केनोपायेन मुक्ता भवन्तीत्यर्थः ॥ एवं पृष्टो भगवान् तमेव ज्ञानोपायं पुनरप्याह— श्रीभगवानुवाच— इन्द्रियाणां निरोधेन देहे पश्यन्ति मानवाः । देहे नष्टे कुतो बुद्धि- र्बुद्धिनाशे कुतो ज्ञाता ॥ ५४ ॥ मानवाः मनुष्याः इन्द्रियाणां निरोधेन इन्द्रियनियमनेन दे- हे देहे एव पश्यन्ति ज्ञास्यन्ति, तस्मात् देहदाढर्यम् इन्द्रियदार्ढ्यं च ज्ञानोपायं इति भावः । तदभावे ज्ञानमेव नास्ति इत्याह— देहे नष्टे अदृष्टे सति बुद्धिः कुतः तत्त्वज्ञानं कुतः ! बुद्धिनाशे तत्त्वज्ञानाभावे ज्ञाता अपरोक्षज्ञानिता च कुतः ! तस्माद्देहे-